पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
प्रथमोद्योतः


ध्वनिसम्भावनां निराकरोति । अप्रस्तुतप्रशंसायामपि यदा सामान्यविशे- षभावान्निमित्तनिमित्तिभावाद्वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धः तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् । यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतो सत्यामपि प्राधान्येन तत्सामा- न्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्यनि- ष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामन्ये सर्वविशेषाणामन्तर्भावाद्विशेष-


लोचनम्

प्रकारः । यथा-

एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कर्ण पाथसो
यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः
स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥

 अनास्थाने महत्त्वसम्भावनं सामान्य प्रस्तुतम् , प्रस्तुतं तु जलबिन्दौ मणित्व- सम्भावनं विशेषरूपं वाच्यम् । तत्रापि सामान्यविशेषयोर्युगपत्प्राधान्ये न विरोध इत्यु- क्तम् । एवमेकः प्रकारो द्विभेदोऽपि विचारितः, यदा तावदित्यादिना विशेषस्यापि प्राधान्यमित्यन्तेन । एतमेव न्यायं निमितनैमित्तिकभावेऽतिदिशंस्तस्यापि द्विप्रकारता

बालप्रिया

विशेषप्राधान्यनान्तरीयकत्वं सामान्यप्राधान्यस्येति भावः । न हि विरुध्यत इति । यथा 'रक्तं पट वयेत्यादौ द्वयोस्त्रयाणां वा विधिरिति भावः । एतदिति । मुखादि- ति । आरम्भत इत्यर्थः। प्रथमतस्सम्भूतमिति यावत् । 'एतद्वक्ष्यमाणं शृण्विति सम्बन्धः । मुक्तामणिरित्यमस्त यत् एतत्तस्य जडस्य कियत् वक्ष्यमाणापेक्षया अत्य- ल्पमेवेत्यर्थः । सादृश्यनिमित्तकस्तभ्रमस्य सम्भवाज्जलकणे मुक्तामणिभ्रमो भवेदिति भावः । ऋण्विति । अस्मात् पूर्वोक्तात् । अन्यदपि त्वं शृणु ; किं तदित्यत्राह- अङ्गुलीति । यद्वा-मुखादिति कस्यचित् प्रतारकस्य वदनादित्यर्थः । शृण्वन् इति छेदः । यदिति । यस्मादित्यर्थः । अस्मादपीति । अधिकमस्तीति शेषः । तदाह- अङ्गुलीति । स जड इत्यत्राप्यनुषज्यते । जातमुक्तामणिभ्रमो जड इत्यर्थः । तत्रेति । तस्मिञ्जलकण इत्यर्थः । 'कुत्रोड्डीयेति पाठे तु तस्मिन्निति शेषो बोध्यः। शनैः मुक्तामणिबुध्या मन्दम् । आदीयमाने अङ्गुल्यग्रस्य लघुक्रियया अल्पचालनेन प्रवि- लयिनि अङ्गुलावेव लग्न इत्यर्थस्तथा सति । उड्डीयेति । अयमिति शेषः । तस्याद- र्शनान्ममायं मुक्तामणिः खमुत्पत्य गत इति मत्वा अन्तःशुचा न निद्रातीत्यर्थः । -