पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
सटीकलोचनोपेतध्वन्यालोके


सोऽपि ध्वनिविषयोऽस्तु, न तु स एव ध्वनिरिति वक्तुं शक्यम् । पर्या- योक्तनिर्दिष्टन्यायात् । अपि च सङ्करालङ्कारेऽपि च क्वचित् सङ्करोक्ति रेव


लोचनम्

एवायं न भवति, अपि त्वलङ्कारध्वनिनामायं ध्वनेर्द्वितीयो भेदः । यच्च पर्यायोक्ते निरूपितं तत्सर्वमत्राप्यनुसरणीयम् । अथ सर्वेषु सङ्करप्रभेदेषु व्यङ्गयसम्भावनानिरास- प्रकारं साधारणमाह-अपि चेति । 'क्वचिदपि सङ्करालङ्कारे चेति सम्बन्धः, सर्व. भेदभिन्न इत्यर्थः । सङ्कीर्णता हि मिश्रत्वं लोलीभावः, तत्र कथमेकस्य प्राधान्यं क्षीर- जलवत् ।

अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसा सा त्रिविधा परिकीर्तिता ॥

 अप्रस्तुतस्य वर्णनं प्रस्तुताक्षेपिण इत्यर्थः । स चाक्षेपस्त्रिविधो भवति-सामा- न्यविशेषभावात् , निमित्तनिमित्तिभावात् , सारूप्याच्च । तत्र प्रथमे प्रकारद्वये प्रस्तु- ताप्रस्तुतयोस्तुल्यमेव प्राधान्यमिति प्रतिज्ञा करोति-अप्रस्तुतेत्यादिना प्राधान्यमि- त्यन्तेन । तत्र सामान्यविशेषभावेऽपि द्वयी गतिः-सामान्यमप्राकरणिक शब्देनो- च्यते, गम्यते तु प्राकरणिको विशेषः स एकः प्रकारः । यथा-

अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् ।
अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥

 अत्र हि दैवप्राधान्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृते वस्तुनि क्वापि विनष्टे विशेषात्मनि पर्यवस्यति । तत्रापि विशेषांशस्य सामान्येन व्याप्तत्वाव्द्यय- विशेषवद्वाच्यसामान्यस्यापि प्राधान्यम् , न हि सामान्यविशेषयोर्युगपत्प्राधान्यं विरु- ध्यते । यदा तु विशेषोऽप्राकरणिकः प्राकरणिक सामान्यमाक्षिपति तदा द्वितीयः

बालप्रिया

धुद्धिनिवर्तकत्वं वृत्तायुक्त, तत्कथमित्यत्राह-सङ्कीर्णतेति । 'मिश्रत्वमित्यस्य विवर- णम्-लोलीभाव इति । आत्यन्तिकस्संश्लेष इत्यर्थः । अधिकारादिति भामही- यमिदम् । अधिकारः प्रस्तुतत्वम् । सारार्थ व्याचष्टे-अप्रस्तुतस्य वर्णनमिति। स्तुतिशब्दार्थकथनं वर्णनमिति । द्वयी गतिरिति । प्रकारद्वयमित्यर्थः । स इति । सामान्याद्विशेषप्रतीतिरूप इत्यर्थः । दैवप्राधान्यमिति । 'दैवस्वातन्त्र्यमिति च पाठः । सर्वत्र सामान्यरूपमिति । संसारनैर्घृण्यादावनुगतमित्यर्थः । सर्वस्य तदा- यत्तस्थितित्वादिति भावः । क्वापीति । प्रेयसीपुत्रादिरूप इत्यर्थः । अत्र व्यङ्गद्यवा- च्ययोस्समप्राधान्यं दर्शयति-तत्रापीत्यादि । ननु व्यङ्गयस्य विशेषस्यास्तु प्राधान्यं, वाच्यस्य सामान्यस्य तत्कथं स्यादित्यत्राह-विशेषांशस्येति । प्राधान्यमिति ।


 १. भामह., ३. २९.