पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
प्रथमोद्योतः


कारोऽलङ्कारान्तरच्छायामनुगृह्णाति, तदा व्यङ्गयस्य प्राधान्येनाविवक्षित. त्वान्न ध्वनिविषयत्वम् । अलङ्कारद्वयसम्भावनायां तु वाच्यव्यङ्गययोः समं प्राधान्यम् । अथ वाच्योपसर्जनीभावेन व्यङ्गयस्य तत्रावस्थानं तदा


लोचनम्

 तदाह-यदालङ्कार इत्यादि । एवं चतुर्थेऽपि प्रकारे ध्वनिता निराकृता । मध्य- मयोस्तु व्यङ्गयसम्भावनैव नास्तीत्युक्तम् । आद्ये तु प्रकारे 'शशिवदनेत्यायुदाहृते कथञ्चिदस्ति सम्भावनेत्याशङ्कथ निराकरोति-अलङ्कारद्वयेति । सममिति । द्वयोर- प्यान्दोल्यमानत्वादिति भावः । ननु यत्र व्यङ्ग्यमेव प्राधान्येन भाति तत्र किं कर्त- व्यम्। यथा-

होइ ण गुणाणुराओ खलाणे णवरं पसिद्धिसरणाणम् ।
किर पहिणुसइ ससिमणं चन्दे पिआमुहे दिठे ।।

 अत्रार्थान्तरन्यासस्तावद्वाच्यत्वेनाभाति, व्यतिरेकापह्रुती तु व्यङ्ग्यत्वेन प्रधान- तयेत्यभिप्रायेणाशङ्कते-अथेति । तत्रोत्तरम्-तदा सोऽपीति । सङ्करालङ्कार

बालप्रिया

 अस्मिंश्चतुर्थे भेदे ध्वन्यभावपरतया वृत्तिग्रन्थमवतारयति-तदाहेति । आ- न्दोल्यमानत्वादिति । वाच्यत्वव्यङ्गयत्वाभ्यां सन्दिह्यमानत्वादित्यर्थः । नन्वित्या- दि । यत्रेति । यादृशे सङ्करालङ्कार इत्यर्थः । होइ इति ।

भवति न गुणानुरागः खलानां केवलं प्रसिद्धिशरणानाम् ।
किल प्रस्नौति शशिमणिः चन्द्रे न प्रियामुखे दृष्टे ॥ इति च्छाया ।

 गुणानुरागः परैर्वर्ण्यमानेष्वपि केषाञ्चिद्गुणेषु प्रीतिः । न भवतीत्यत्र हेतुमा- ह-प्रसिद्धीति । वस्तुतत्वावमर्शरहितानामिति भावः । उक्तं सामान्यं विशेषेण समर्थयते-किलेत्यादि। 'शशिमणिः चन्द्रे दृष्ट प्रस्नौति किल; प्रियामुखे दृष्टे न प्रस्नौतीत्यन्वयः। यदि शशिमणेर्गुणानुरांगस्स्यात्तदा प्रियामुखदर्शने कथं न निःष्य- न्देतेति भावः । व्यतिरेकेति । चन्द्रापेक्षया प्रियामुखस्याधिकगुणवत्वव्यञ्जनाद्वयति- रेकः; अयं न चन्द्रः प्रियामुखमेव चन्द्र इत्यर्थस्य ख्यापनादपहृतिश्चेति भावः । व्यङ्गयत्वेनेत्यादि । व्यङ्ग्यत्वेन प्रधानतया च भात इत्यर्थः । सङ्करोक्तरेव ध्वनित्व.


१उपमानवतोऽर्थस्य यद्विशेषनिदर्शनम् ।
व्यतिरेकं तमिच्छन्ति विशेषापादनाद्यथा ॥ भामह., १. ७५.
अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा ।
भूतार्थापहवादस्याः क्रियते चाभिधा यथा ॥ भामह., ३. ३१०

 इति तयोर्लक्षणमवसेयम् ।