पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

अत्रैव यमकमुपमा च । तृतीयः प्रकार:-यत्रैकत्र वाक्यांशेऽनेकोऽर्थालङ्कारस्तत्रापि द्वयोः साम्यात्कस्य व्यङ्गयता । यथा-

तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भास्वति ।
वासाय वासरः क्लान्तो विशतीव तमोगुहाम् ॥ इति ।

 अत्र हि स्वामिविपत्तिसमुचितव्रतग्रहणहेवाकिकुलपुत्रकरूपणमेकदेशविवर्तिरूपकं दर्शयति । उत्प्रेक्षा चेवशब्देनोक्ता । तदिदं प्रकारद्वयमुक्तम् ।

शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र वर्तिनः ।
सङ्करश्चैकवाक्यांशप्रवेशाद्वाभिधीयते ॥ इति च ।

 चतुर्थस्तु प्रकारः यत्रानुग्राह्यानुग्राहकभावोऽलङ्काराणाम् । यथा-

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥

 अत्र मृगाङ्गनावलोकनेन तदवलोकनस्योपमा यद्यपि व्यङ्गया, तथापि वाच्यस्य सा सन्देहालङ्कारस्याभ्युत्थानकारिणीत्वेनानुग्राहकत्वाद्गुणीभूता, अनुग्राह्यत्वेन हि सन्देहे पर्यवसानम् । यथोक्तम्-

परस्परोपकारेण यत्रालकृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि सङ्करः ॥

बालप्रिया

केत्यर्थः । एकवाक्यवर्तनरूपं सङ्करं दर्शयित्वा, एकवाक्यांशसमावेशरूपं सङ्करं दर्श- यति-यत्रेत्यादि । साम्यादिति । वाच्यत्वेन सादृश्यादित्यर्थः। स्वामीति । स्वामिनो विपत्तौ सत्यां समुचितं यद्व्रतग्रहणं तत्र हेवाकी उद्युक्तः यः कुलपुत्रकः तद्रूपणं वासरविषयकं कर्म। तमोगुहामित्येकदेशविवर्तिरूपकं कर्तृ । भास्वतस्स्वा- मित्वमतस्तद्गमनस्य विपत्तित्वं गुहानिवासस्य व्रतग्रहणत्वं तत्प्रवेशस्य तदर्थव्यापार- त्वञ्च तमोगुहामिति शाब्देन रूपकेण गम्यत इति भावः। उक्तयोर्भेदयोस्सम्मतिमाह- तदिदमित्यादि । अनया कारिकया उक्तयोर्भेदयोर्लक्षणं प्रदर्शितम् । वृत्तिग्रन्थानुरोधेन वाच्यव्यङ्गययोरनुग्राह्यानुग्राहकभावापन्नं सङ्करमुदाहरति-प्रवातेति । तयेति। श्रीपार्व- त्येत्यर्थः। नन्वनुग्राहकत्वेऽपि कुतो गुणीभाव इत्यत आह–अनुग्राह्यत्वेनेति । सन्देहस्येति शेषः । पर्यवसानमिति । अनुप्राहिकाया व्यङ्ग्योपमाया इति शेषः।


१. भामह., ३.४८.

२. तथाच सन्देहोपपादकत्वादुपमाया अगत्वं, उपमया जनितायां चमत्कृती सन्देहेन साह्यकरणात् तस्यापि तदङ्गत्वमिति परस्परोपकारकरणात परस्परमनुग्राह्या- नुग्राहकभाव इत्यर्थः । अत एवोक्तम्--'परस्परोपकारेणेत्यादि ।