पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
प्रथमोद्योतः


न पुनः पर्यायोक्ते भामहोदाहृतसदृशे व्यङ्गयस्यैव प्राधान्यम् । वा. च्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् । अपह्रुतिदीपकयोः पुनर्वाच्यस्य


लोचनम्

न्तर्भावादात्मैवासौ नालङ्कारस्स्यादित्यर्थः । तत्रेति । यादृशोऽलङ्कारत्वेन विवक्षित- स्तादृशे ध्वनिर्नान्तर्भवति, न तादृगस्माभिर्ध्वनिरुक्तः । ध्वनिर्हि महाविषयः सर्वत्र भा- वाध्यापकः समस्तप्रतिष्टास्थानत्वाच्चाङ्गी। न चालङ्कारो व्यापकोऽन्यालङ्कारवत् । न चाङ्गी, अलङ्कार्यतन्त्रत्वात् । अथ व्यापकत्वाङ्गित्वे तस्योपगम्येते, त्यज्यते चालङ्का- रता, तर्ह्यस्मन्नय एवायमवलम्ब्यते केवलं मात्सर्यग्रहात्पर्यायोक्तवाचेति भावः । न चेयदपि प्राक्तनैर्दृष्टमपि त्वस्माभिरेवोन्मीलितमिति दर्शयति-न पुनरिति । भामहस्य यादृक्तदीयं रूपमभिमतं तादृगुदाहरणेन दर्शितम् । तत्रापि नैव व्यङ्ग्यस्य प्राधान्यं चारुत्वाहेतुत्वात् । तेन तदनुसारितया तत्सदृशं यदुदाहरणान्तरमपि कल्प्यते तत्र नैव व्यङ्गयस्य प्राधान्यमिति सङ्गतिः ।

 यदि तु तदुक्तमुदाहरणमनादृत्य 'भम धम्मिअ' इत्यायुदाह्रियते, तदस्मच्छिष्य- तैव । केवलं तु नयमनवलम्ब्यापश्रवणेनात्मसंस्कार इत्यनार्यचेष्टितम् । यदाहुरैतिहा. सिकाः-'अवज्ञयाप्यवच्छाद्य शृण्वन्नरकमृच्छति' इति । भामहेन ह्युदाहृतम्-

'गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः ।
विप्रा न भुञ्जते' इति ।

बालप्रिया

बहुविधत्वादिति भावः । वृत्तौ ध्वन्यन्तर्भावमात्रमुक्तं, तस्यानलङ्कारत्वप्रसङ्गपर्यव. सायितामाह-आत्मनीति । यादृश इति । उपसर्जनीभूतव्यङ्ग्यार्थ इत्यर्थः । अनन्तर्भावे हेतुमाह-नेत्यादि । समस्तेति । गुणादीत्यर्थः । अन्यालङ्कारवदिति । लोकप्रसिद्धकट कादिवदित्यर्थः । अथेत्यादि । पर्यायोक्तमित्ययमलङ्कारः व्यापकश्चाङ्गी चेत्युपगम्यत इति चेदित्यर्थः । तर्हीति। मात्सर्यग्रहणात्केवलं पर्यायोक्तवाचा अयम- स्मन्नय एवावलम्ब्यत इति योजना । इयदपीति । व्यङ्ग्यस्य प्राधान्यमपीत्यर्थः । इति दर्शयतीति । 'न पुनरि'त्यादिग्रन्थेनोक्तमर्थं दर्शयतीत्यर्थः । तत्रापीति । भामहोदाहरणेऽपीत्यर्थः ।

 पक्षान्तरमाशङ्कय परिहरति-यदि त्वित्यादि। केवलन्तु नयमनवल- म्ब्यापश्रवणेनेति । यथाविधि गुरूपसदनपूर्वकं गुरुमुखादेव शास्त्रार्थग्रहणमकृत्वा श्रवणाभासेनेत्यर्थः । अवज्ञयेति । विद्यायां गुरौ चेति शेषः । अवच्छाद्य आत्मा- पह्नवं कृत्वा । ऋच्छति प्राप्नोति । किं तद्भामहोदाहरणमित्यत्राह-भामहेनेति । गृहेष्विति । 'अधीतिनः विप्राः यदन्नं न भुञ्जते वयं गृहेष्वध्वसु वा तदन्नं न


 १. भामह., ३. ९.