पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
सटीकलोचनोपेतध्वन्यालोके


निमित्ता काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् । पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः । न तु ध्वनेस्त- त्रान्तर्भावः । तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् ।


लोचनम्

 अत्र भीष्मस्य भार्गवप्रभावाभिभावी प्रभाव इति यद्यपि प्रतीयते, तथापि तत्स- हायेन देशिता धर्मदेशनेत्यभिधीयमानेनैव काव्यार्थोऽलंकृतः । अत एव पर्यायेण प्रका- रान्तरेणावगमात्मना व्यङ्गयेनोपलक्षितं सद्यदभिधीयते तदभिधीयमानमुक्तमेव सत्प- र्यायोक्तमित्यभिधीयत इति लक्षणपदम् , पर्यायोक्तमिति लक्ष्यपदम् , अर्थालङ्कारत्वं सामान्यलक्षणं चेति सर्वं युज्यते । यदि त्वभिधीयत इत्यस्य बलाब्याख्यानमभिधीयते प्रतीयते प्रधानतयेति, उदाहरणं च 'भम धम्मिअ' इत्यादि, तदालङ्कारत्वमेव दूरे सम्पन्नमात्मतायां पर्यवसानात् । तदा चालङ्कारमध्ये गणना न कार्या । भेदान्त- राणि चास्य वक्तव्यानि । तदाह-यदि प्राधान्येनेति । ध्वनाविति । आत्मन्य-

बालप्रिया

नमिति दर्शयति-अत्रेत्यादि । प्रतीयत इति । व्यज्यत इत्यर्थः । तत्सहायेनेति । तेन प्रतीयमानार्थनोपस्कृतेनेत्यर्थः । अभिधीयमानेनैव वाच्यार्थेनैव । काव्यार्थः वीररसः । अत एवेति । 'अत एव इति सर्वं युज्यत' इति सम्बन्धः । व्यङ्ग्यस्य प्राधान्ये सर्वमेतदनुपपन्नं भवेदतो वाच्यस्यैव प्राधान्यमभ्युपेयमिति भावः । 'पर्या. योक्तं यदन्येन प्रकारेणाभिधीयत' इत्येतावन्मानं भामहोक्तं लक्षणम् ; तत्रान्येन प्रका. रेणेत्यस्य विवरणं 'पर्यायेणेत्याद्युपलक्षित'मित्यन्तम् । पर्यायशव्दार्थ एवान्येन प्रका- रेणेत्यनेनोक्त इत्यावेदयितुमत्र पर्यायेणेत्युक्तम् । अत एव तस्य व्याख्यानम्- प्रकारान्तरेणेति । कोऽसौ प्रकार इत्यत्राह-अवगमात्मनेति । अस्यैव विवर- णम्-व्यङ्ग्येनेति । तृतीयाया अर्थमाह-उपलक्षितमिति । 'यदभिधीयते तद- भिधीयमानं पार्यायोक्तमित्यभिधीयते' इति सम्बन्धः । 'अभिधीयमानमित्यस्य व्या- ख्यानम्-उक्तमेव सदिति । इति लक्षणपदमिति । इत्यर्थकं लक्षणवाक्यमि- त्यर्थः । अनेन लक्षणवाक्येनैव व्यङ्ग्यानुगतस्य वाच्यस्य प्राधान्यं गम्यत इति भावः । इति लक्ष्यपदमिति । अन्वर्थेनानेनापि पूर्वोक्तं गम्यत इति भावः । अर्था- लङ्कारत्वं सामान्यलक्षणमिति । व्यङ्ग्यस्य प्राधान्येऽलङ्कार्यत्वप्राप्त्यालकार- त्वभङ्गस्यादिति भावः । सामान्यलक्षणं सामान्यधर्मः । पक्षान्तरमाशङ्कते-यदि त्विति । बलादिति । शब्दपीडनेनेत्यर्थः । प्रतीयते प्रधानतयेति । अभीत्याभि- मुख्ये । तच्च प्राधान्यनिबन्धनमिति भावः । अस्मिन् पक्षे ऽभिमतं न सिद्ध्येदित्याह- तदेत्यादि । ननु मा भूदलङ्कारत्वमित्यत्राह-तदेति । न केवलमस्य प्रसिद्धस्वभाव- परित्यागः, अप्रसिद्धावान्तरभेदकल्पनापि स्यादित्याह-भेदेत्यादि । प्रधानव्यङ्ग्यानां