नाविवक्षितत्वान्न तया व्यपदेशस्तद्वदनापि द्रष्टव्यम् । अनुक्तनिमित्ताया..
मपि विशेषोक्तौ-
आहूतोऽपि सहायैः ओमित्युक्त्वा विमुक्तनिद्रोऽपि । |
इत्यादौ व्यङ्गयस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रम् । न तु तत्प्रतीति-
लोचनम्
तेन प्रकारद्वयमवधीर्य तृतीयं प्रकारमाशङ्कते-अनुक्तनिमित्तायामपीति । व्यङ्गयस्येति । शीतकृता खल्वार्तिरत्र निमित्तमिति भट्टोद्भटः, तदभिप्रायेणाह-न त्वत्र काचिच्चारुत्वनिष्पत्तिरिति। यत्तु रसिकैरपि निमित्तं कल्पितम्-‘कान्तासमा. गमे गमनादपि लघुतरमुपायं स्वप्नं मन्यमानो निद्रागमबुद्धया सङ्कोचं नात्यजत्' इति तदपि निमित्तं चारुत्वहेतुतया नालङ्कारविद्भिः कल्पितम् , अपि तु विशेषोक्तिभाग एव न शिथिलयतीत्येवम्भूतोऽभिव्य ज्यमाननिमित्तोपस्कृतश्चारुत्वहेतुः । अन्यथा तु विशेषो- क्तिरेवेयं न भवेत् । एवमभिप्रायद्वयमपि साधारणोक्त्या ग्रन्थकृन्न्यरूपयन्न त्वौद्भटे- नैवाभिप्रायेण ग्रन्थो व्यवस्थित इति मन्तव्यम् । पर्यायोक्तेऽपीति ।
पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । |
इति लक्षणम् । यथा-
शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । |
बालप्रिया
नाऽस्ति, तस्मादित्यर्थः । अत्र निमित्तमिति । सङ्कोचाशिथिलने गम्यं निमित्तमित्य- र्थः। लघुतरमिति । सङ्कोचापरित्यागलभ्यत्वान्निद्रागमस्येति भावः । तदपि निमि. त्तमिति । रसिकैः कल्पितं निद्रागमबुद्धिरूपं निमित्तमित्यर्थः । अपि स्वित्यादि । 'न शिथिलयतीत्येवंभूतो विशेषोक्तिभाग एवेति योजना । अभिव्यज्यमाननिमित्तेति । पूर्वोक्तनिमित्तेत्यर्थः । अन्यथा त्विति । व्यज्यमाननिमित्तोपस्काररूपविशेषविरहे त्वित्यर्थः । अभिप्रायद्वय मिति। उद्भटरसिकाभिप्रायद्वयमित्यर्थः । साधारणोक्त्या व्यङ्ग्यस्येत्यायुक्त्या । भट्ठोद्भटोक्तं लक्षणमाह-पर्यायोक्तमिति । तदिति शेषः । पर्यायशब्दार्थ दर्शयति-अन्येनेति । तमेव स्फुटयति-वाच्येति । शत्रुच्छेद इति । मुनेश्शत्रुसद्भावो नोचितः, तत्र तदुच्छेदेच्छा ततोऽप्यनुचिता, तस्या द्रढिमा अत्यन्तानुचितः; अत एवाह-उत्पथेति । रामस्य भार्गवस्य । अनेन भीष्मेण कर्त्रा धनुषा करणेन । देशिता कृता। धर्मदेशना धर्मोपदेशः । अत्रापि वाच्यमेव प्रधा-
१. भामह., ३.८.