पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 इत्यत्र दीपनकृतमेव चारुत्वम् । “अपह्नुतिरभीष्टस्य किञ्चिदन्तर्गतोपमा' इति । तत्रापहृत्यैव शोभा । यथा-

नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ इति ।

 एवमाक्षेपं विचार्योद्देशक्रमेणैव प्रमेयान्तरमाह-अनुक्तनिमित्तायामिति ।

एकदेशस्य विगमे या गुणान्तरसंस्तुतिः ।
विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता ॥

 यथा-

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥

 इयं चाचिन्त्यनिमित्तेति नास्यां व्ययस्य सद्भावः। उक्तनिमित्तायामपि वस्तु- स्वभावमात्रत्वे पर्यवसानमिति तत्रापि न व्यङ्गयसद्भावशङ्का । यथा-

कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥

बालप्रिया

श्लोकोऽयं कुवलयानन्देऽप्युदाहृतः । दीपनकृतमेवेति । दीपनं नामानेककध- र्मान्वयः । एवकारेण व्यङ्ग्याया उपमाया व्यवच्छेदः । अपह्रुतेर्भामहीये लक्षणोदा- हरणे दर्शयति-अपह्नुतिरित्यादि । अत्रापह्रुतुतिपदस्यावृत्तिर्बोध्या । अभीष्टस्य वर्ण्यत्वेनाभिमतस्य । किञ्चिदन्तर्गता व्यङ्गया उपमा यस्यास्सा । अपह्नुतिः निषेधः । अपह्नुतिः तन्नामालङ्कारः । अपहृत्येति । अपह्रवेनेति च पाठः । शोभा चारुत्वम् । नेयमिति । मुहुर्विरौतीत्यन्वयः । 'मदेन मुखरा आकृष्यमाणस्येति च बिम्बप्रतिबिम्बतयोक्तिः । 'अनुक्तनिमित्तायामित्यादिग्रन्यस्थ पूर्वग्रन्थेन सम्बन्धं दर्श- यन्नवतारयति-एवमित्यादि। उद्देशेति । समासोक्त्याक्षेपेत्यादिपूर्वोक्तेत्यर्थः 'अनुक्तनिमित्ताया'मिति कथनस्य फलं वक्तुमुपक्रममाण आह-एकेत्यादि । एके- त्यादिलक्षणं भामहीयम् । एकदेशस्य तनुमत्त्वादेः कारणस्य । गुणान्तरस्य बलवत्वादिरूपकार्यस्य । संस्तुतिः कथनम् । विशेषप्रथनाय कस्यचिदतिशयस्य ख्यापनाय । स इति । सः प्रसिद्धः । अपिशब्दः शम्भुनेत्यत्रापि योज्यः। बलस्य तन्वाश्रयत्वात्तनुविगमे बलविगमो न्याय्यः । इह तु तनुविगमेऽपि बलसद्भाव उक्तः । तत्र च यत्किञ्चिन्निमित्तं भवेत् , परन्तु तदचिन्त्यमित्याह-इयञ्चेति । वस्तुस्व- भावमात्रत्वे पर्यवसानमिति । नार्थान्तरव्यञ्जकत्वमित्यर्थः ।

 कर्पूर इति । अवार्येत्यादिर्निमित्तोक्तिः। तेनेति। यस्मादुक्ते प्रकारद्वये व्यङ्यसद्भावो


 १. भामह., ३. २१. २. भामह., ३. २२. ३. भामहः, ३. २३. ।