अहो दैवगतिः कीदृक्तथापि न समागमः ॥ |
अत्र सत्यामपि व्यङ्गयप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा ।
यथा च दीपकापह्रुत्यादौ व्यङ्गयत्वेनोपमायाः प्रतीतावपि प्राधान्ये-
लोचनम्
समासोक्तिश्लोकः पठितः। अहो दैवगतिरिति । गुरुपारतन्त्र्यादिनिमित्तोऽसमा- गम इत्यर्थः । तस्यैवेति । वाच्यस्यैवेति यावत् । वामनाभिप्रायेणायमाक्षेपः, भाम- हाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोः युक्त्येदमे- कमेवोदाहरणं व्यतरद्ग्रन्थकृत् । एषापि समासोक्तिर्वास्तु आक्षेपो वा, किमनेनास्मा- कम् । सर्वथालङ्कारेषु व्यङ्ग्यं वाच्ये गुणीभवतीति नः साध्यमित्यत्राशयोऽत्र प्रन्थे. ऽस्मद्गुरुभिर्निरूपितः।
एवं प्राधान्यविवक्षायां दृष्टान्तमुक्त्वा व्यपदेशोऽपि प्राधान्यकृत एव भवतीत्यत्र दृष्टान्तं स्वपरप्रसिद्धमाह-यथा चेति । उपमाया इति । उपमानोपमेयभाव- स्येत्यर्थः । तयेत्युपमया। दीपके हि 'आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते' इति लक्षणम् ।
मणिः शाणोल्लोढः समरविजयी हेतिदलितः |
बालप्रिया
अलङ्कारोदाहरणत्वाभावेनेत्यर्थः । अपरिसमाप्तमेवेति योजना। तत्रेति । आक्षेपसमर्थन इत्यर्थः । नायकयोरसमागमे गम्यं हेतुं दर्शयति-गुर्वित्यादि । 'अनुरागे'त्याद्युदा. हरणप्रदर्शनाभिप्रायमाह-वामनेत्यादि । वामनाभिप्रायेण उपमानप्रत्यायनपक्ष. रूपेण । इदमिति । अनुरागेत्यादिकमित्यर्थः । अत्र ग्रन्थ इति। चारुत्वेत्यादिप्रा. धान्य विवक्षेत्यन्तग्रन्थ इत्यर्थः ।
दीपके हीति । 'इत्यत्र दीपनकृतमेव चारुत्वमित्यन्वयः । दीपके हीत्यस्य स्थाने 'तथाहीति च पाठः। भामहोत्तलक्षणमन्य तदुदाहरणञ्च दर्शयति-आदी- त्यादि । अनाद्यादयश्शब्दा वाक्यविषयाः। तत्रान्त्यदीपकमुदाहरति-मणिरिति ।
१. भामह., २.२५.