पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
सटीकलोचनोपेतध्वन्यालोके


रूपो य आक्षेपः स एव व्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरम् । चारु. त्वोत्कर्षनिबन्धना हि वाच्यव्यङ्गययोः प्राधान्यविवक्षा । यथा-

अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः ।


लोचनम्

किं वा कोमलकान्तिभिः किसलयः सत्येव तत्राधरे
ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥

 अत्र व्यङ्गयोऽप्युपमार्थो वाच्यस्यैवोपस्कुरुते । किं तेन कृत्यमिति त्वपहस्तनारूप आक्षेपो वाच्य एव चमत्कारकारणम्। यदि वोपमानस्याक्षेपः सामर्थ्यादाकर्षणम् । यथा-

ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥

 इत्यत्रेर्ष्याकलुषितनायकान्तरमुपमानमाक्षिप्तमपि वाच्यार्थमेवालङ्करोतीत्येषा तु समासोक्तिरेव । तदाह-चारुत्वोत्कर्षेति । अत्रैव प्रसिद्धं दृष्टान्तमाह-अनुरा- गवतीति । तेनाक्षेपप्रमेयसमर्थनमेवापरिसमाप्तमिति मन्तव्यम् । तत्रोदाहरणत्वेन

बालप्रिया

पुनरिति । पुनरुक्तानामनुपादेयानां निष्फलानां वस्तूनां पार्वणचन्द्रादीनां रचनायां सृष्टौ विषये ये आरम्भा व्यापाराः तेषु । अपूर्वः अन्यत्रादृष्टः । ग्रहः अभिसन्धि- विशेषः । अत्रापि व्यंग्यस्य गुणीभावं दर्शयति-अत्रेत्यादि । उपमार्थः चन्द्रादि- सादृश्यरूपार्थः । वाच्यस्यैवोपस्कुरुते वाच्यार्थमेवालङ्करोति । अत्र हेतुमाह- किमित्यादि । 'इति वाच्य आक्षेप एव चमत्कारकारणमिति सम्बन्धः। अपहस्त- नारूपः निरसनरूपः । “उपमानाक्षेप” इति सूत्रमन्यथा व्याचष्टे-यदि वेत्यादि। सामर्थ्यादर्थसामर्थ्यात् । आकर्षणं व्यञ्जनम् । ऐन्द्रमिति । पयोधरो मेघः स्तनश्च । प्रसादयन्तीत्यादि । शरत्काले हि चन्द्रस्य प्रसादातिशयो रवितापाधिक्य च । अत्र लक्षणं योजयति-अत्रेत्यादि । ईर्ष्य॑ति । ईर्ष्यया अक्षान्त्या कलुषितं यन्नायकान्तरं तद्रूपमुपमानमित्यर्थः । आक्षिप्तमिति । व्यजितमित्यर्थः । नायिका- व्यञ्जनस्याप्युपलक्षणमिदम् । नायिकापक्षे नखक्षतस्थतया श्रुतमप्युपमानत्वमैन्द्रे धनुषि योजनीयमिन्द्रचापाभं नखक्षतं दधानेत्यर्थः । एषेत्यादि । वामनमते आक्षेपोदाहरण- त्वेनोक्तं इदं भामहमते समासोक्त्युदाहरणमेवेत्यर्थः । तदाहेति । वाच्यस्यैव प्राधान्य न व्यंग्यस्येत्यस्मिन्नुक्तार्थे हेतुमाहेत्यर्थः। अत्रैवेति । चारुत्वोत्कर्षकृतं प्राधान्य मि- त्यस्मिन्नर्थ एवेत्यर्थः । एवकारोऽलङ्कारोदाहरणत्वशङ्काशमनार्थः ।

 अनुरागवतीति। अनुरागो रक्तिमा प्रेमविशेषश्च । तत्पुरस्सरः तस्याः पुर. स्सरः पूर्वकाले सम्मुखं च सरन्निति द्वयोरर्थयोरध्यवसायेनैक्यं बोध्यमत एवाहो इत्यादेरुपपत्तिः । नायकपक्षे तु सम्मुखं वर्तमान इत्यर्थः । तेनेति। दृष्टान्तोक्तितया