पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
प्रथमोद्योतः


लोचनम्

 अत्र कश्चित्सेवकः प्राप्तः प्राप्तव्यमस्मात्किमिति न लभ इति प्रत्याशाविशस्य- मानहृदयः केनचिदमुनाक्षेपेण प्रतिबोध्यते । तत्राक्षेपेण निषेधरूपेण वाच्यस्यैवासत्पु- रुषसेवातद्वैफल्यतत्कृतोद्वेगात्मनः शान्तरसस्थायिभूतनिर्वेदविभावरूपतया चमत्कृति- दायित्वम् । वामनस्य तु 'उपमानाक्षेपः' इत्याक्षेपलक्षणम् । उपमानस्य चन्द्रादेरा- क्षेपः; अस्मिन्सति किं त्वया कृत्यमिति । यथा-

तस्यास्तन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना
सौन्दर्यस्य पदं दृशौ यदि च तैः किं नाम नीलोत्पलैः ।

बालप्रिया

 उक्तं व्यङ्गयमर्थमभिप्रेत्याह-अत्रेत्यादिना । 'कश्चित् सेवकः केनचित्प्रतिबोध्यत' इति सम्बन्धः । प्राप्त इत्यादिद्वयं सेवकविशेषणम् । प्राप्तः सेव्यं प्रभुं प्राप्तः । प्राप्तव्यम् धनादिकम् । अस्मात् प्रभोः । किमिति । कस्मात् कारणात् । न लभे इति वितर्कानन्तरजातया प्रत्याशया प्रतिक्षणोत्पन्नया आशया विशस्य- मानं हृदयं यस्य स इति प्रतिबोधने हेतुः । केनचित् चिरसेविना केनापि का । अमुना आक्षेपेण असत्पुरुषसेवातद्वैफल्यादिरूपव्यंग्यविशेषप्रतिपिपादयिषया कृतेन किं किमकाण्ड एव पतित इति निषेधरूपेण । प्रतिबोध्यत इति। पूर्वमेव ज्ञातं प्रभोरत्यन्तलोभशीलत्वादिस्वभावं कारुण्यात्प्रतिबोध्यत इत्यर्थः । अत्रापि व्यंग्यस्य वाच्योपस्कारकत्वं दर्शयति-तत्रेत्यादि । तत्र उदाहरणे । निषेधरूपेणेति । किं किमिति पतनफलनिषेधरूपेणेत्यर्थः । आक्षेपेणेति तृतीयार्र्थो वैशिष्ट्यं वाच्यान्वयि, तत्सहितवाच्येत्यर्थः । वाच्यस्यैवेति । पान्थमरुमार्गादिवाच्यार्थ प्रत्येवेत्यर्थः । 'चमत्कृतिदायित्वमित्यनेन सम्बन्धः । कस्येत्यत्राह-असदित्यादि। असत्पुरुषः दुष्प्रभुः । व्यंग्यस्येत्यर्थात् । अस्य व्यंग्यस्य वाच्यार्थचमत्कारसम्पादने हेतुमाह- शान्तेत्यादि । असत्पुरुषसेवावैफल्यं विभावः, तत्कृतोद्वेगोऽनुभावः । किं किमकाण्ड एव पतित इतीष्टपतनफलनिषेधरूपाक्षेपेणाक्षेप्यं यदसत्पुरुषसेवावैफल्यादि तेनालकृ. तमाक्षेपकं तद्वाच्यमेव प्रधानमिति भावः । “प्राणा येन समर्पिता"इत्यादिवदवाप्रस्तु- तप्रशंसाप्यस्तीति तत्सङ्कीर्णोऽयमाक्षेप इत्यपि बोध्यम् । 'वामनस्येति लक्षणमित्यनेन सम्बन्धः । आक्षेपशब्दार्थ दर्शयति-अस्मिन्नित्यादि । अस्मिन् उपमेयत्वाभि- मते मुखादौ । त्वया मुखाद्युपमानेन चन्द्रादिना । कृत्यं फलम् ।

 तस्या इति । तदित्यनुभूतार्थकं दृशावित्यनेनापि विपरिणामेन योज्यम् । सौम्यं मधुरदर्शनमत एव सुभगं च । किं किं फलम् । दशाविति। स्त इति शेषः । यदीति सिद्धानुवादे । तैः प्रसिद्धैः । तत्र तस्मिन् । हीति । अहो कष्टमित्यर्थः ।


 १.वा. सू., ४,३.२७.

        १५