पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 इति वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः।तत्रेयदस्त्वित्येतदेवात्र म्रिये इत्याक्षिप- त्सच्चारुत्वनिबन्धनमित्याक्षेप्येणाक्षेपकमलङ्कृतं सत्प्रधानम् । उक्तविषयस्तु यथा ममैव-

भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिः
तत्तादृक्तृषितस्य मे खलमतिः सोऽयं जलं गूहते ।
अस्थानोपनतामकालसुलभा तृष्णां प्रति क्रुध्य भोः
त्रैलोक्यप्रथितप्रभावमहिमा मार्गः पुनर्मारवः ॥

बालप्रिया

प्रतिषेधाभासः इष्टत्वादेव । सः आक्षेपः । तस्य द्वैविध्यमाह-वक्ष्यमाणेति । अत्र वक्ष्यमाणविषये कथनस्यैव निषेधः । उक्तविषये तु क्वचिद्वस्तुनः, क्वचिद्वस्तुकथ- नस्येति बोध्यम् । अहमिति । प्रस्थानोन्मुखं प्रियतमं प्रति सोत्कण्ठायाः कस्याश्चिदु- क्तिः । उत्सुकाऽहं त्वां क्षणमपि न ईक्षेय यदि, ततः तर्हि इयदेतावत् यदिपर्यन्तं वचनमेव अस्तु । अतः अन्येन ते अप्रियेणेति हेतुगर्भम् । उक्तेन वचनेन । किं न वक्ष्यामीत्यर्थः । अत्र लक्षणं योजयति-इतीत्यादि । निषेधात्मेति । किमुक्ते- नेति कथननिषेधाभासात्मेत्यर्थः । अत्रापि वाच्यस्यैव प्राधान्यमिति दर्शयति-तत्रे- त्यादि । इत्येतदेव इति वाच्यार्थ एव । आक्षिपत् व्यञ्जयत् । आक्षेप्येण मरणाध्यवसायरूपव्यङ्गयेन । आक्षेपकमियदेवास्त्वित्यादिनोक्तम् ।

 भो भो इति । 'खलसृतिस्सेयमिति 'खलमतिस्सोऽयमिति च पान्थमरुमार्गसम्बन्ध्यर्थों वाच्यः। प्रकृतो दुष्प्रभुसेवावृत्तान्तस्तु व्यङ्ग्यः । भो भो इति वीप्सया बोधनीयं प्रत्यादरातिशयो द्योत्यते। अकाण्डे । अस्थान एव । किं किं पतितः अत्रागमनेन एतत्सेवनेन चाभिमतं फलं न सिध्यतीत्यर्थः । पान्थेत्यनेन सेवानभिज्ञत्वं द्योत्यते । चिरसेविना केनचिदेवमुक्ते पान्थः किञ्चित् कुपित आह- कान्येत्यादि खलेत्यन्तेन । हे खल ! तत्ताद्वगतिशयेन तृषितस्य तृषा जलपिपा- सा धनलिप्सा च । मे अन्यागतिराश्रयः का नैवेत्यर्थः । मार्गान्तरालाभादवागतः आश्रयणीयान्तरालाभादयं प्रभुराश्रितश्चेत्यर्थः । तच्छ्रुत्वाऽपर आह-सृतिरित्यादि- सा त्वयाऽऽश्रिता । इयं सृतिः अयं मार्गः प्रभुश्च । जलं वारि धनं च। गूहते संवृणोति । कुतो वितरणसम्भावनेति भावः । 'खलमतिस्सोऽयमिति पाठे तु सोऽय- मिति मारवमार्गं प्रभु चोद्दिश्योक्तिः । गूहत इत्यन्तं पान्थस्यैव वचनमिति केचित् । खलेत्यनेन प्रकाशितं कोपमुपहसन् पर एवाह-अस्थानेत्यादि । अकालसुलभां यदा विषयस्य सुलभत्वं तदा तृष्णा न भवति, यदा पुनरसुलभत्वं तदा भवतीत्यका- लसुलभत्वम् । तृष्णां प्रति तव तृष्णायै क्रुध्य न मां प्रतीति भावः । कथम- स्थानोपनतत्वमित्यत्राह-त्रैलोक्येत्यादि । प्रभावमहिमा अत्यन्तापकारित्वा- दिरत्यन्तलुब्धत्वादिश्च । मारवः मरुसम्बन्धी मार्गः, अथ च दुष्प्रभुः ।