पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
प्रथमोद्योतः


कानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् । आक्षेपेऽपि व्यङ्ग्य- विशेषाक्षपिणोऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षपोक्तिसाम. र्थ्यादेिव ज्ञायते । तथाहि-तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेध


लोचनम्

गम्यत इति चानेनाभिधाव्यापारनिरासादित्यलमवान्तरेण बहुना । नायिकाया नायके यो व्यवहारः स निशायां समारोपितः; नायिकायां नायकस्य यो व्यवहारः स शशिनि समारोपित इति व्याख्याने नैकशेषप्रसङ्गः । आक्षेप इति ।

'प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥

 तत्राद्यौ यथा-

अहं त्वां यदि नेक्षय क्षणमप्युत्सुका ततः।
इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥

बालप्रिया

नृपा इत्युक्त्यनुगुणतया राजहंसानां चामरत्वं शरदश्चामरग्राहिणीत्वं चार्थात् सिध्यति, तथा प्रकृते तिमिरांशुकपदानुगुणतया निशादेर्नायिकात्वादिकमत एकदेशविवर्तिरूपकं स्यादित्यर्थः । न तु समासोक्तिरित्यत्र हेतुमाह-तुल्येति । उक्तमुक्तिपदानुगुण्यं निरा. करोति-गम्यत इत्यादि । अनेनेति । लक्षणवचनेनेत्यर्थः । उक्तिरिति तु प्रकृतविष- यतयैवोपपद्यते यत्रोक्त इत्याद्यारम्भादिति भावः । नायिकाया इत्यादि । नायिकाया व्यवहारे नीलाम्बरगलनानवलोकनादिरूपो व्यापारः, नायकस्य तु वदनचुम्बनारम्भा- दिलक्षणः । इति व्याख्यान इति । एवमर्थस्य विवक्षितस्य व्याख्याने सतीत्यर्थः । नैकशेषप्रसङ्ग इति । नायिकानाय के त्यत्र “पुमांस्त्रियेत्येकशेषप्रसङ्गो नेत्यर्थः । एवं समासोक्तौ व्यंग्योपस्कृतं वाच्यमेव प्रधानमतस्तत्र ध्वनिलक्षणस्य नातिव्या- प्तिरिति प्रदर्श्याक्षेपेऽपि स एव प्रकार इत्याह वृत्तौ-'आक्षेपेऽपी' त्यादि । आक्षेपे- ऽपि 'वाच्यस्यैव चारुत्वं, प्राधान्येन ज्ञायत' इति सम्बन्धः । अत्र हेतुः 'वा क्यार्थ' इत्यादि । वाक्यार्थे विषये या आक्षेपोक्तिः, तस्याः सामर्थ्यादित्यर्थः । कथं तत्राक्षेपोक्तिरित्यत उक्तम्-'व्यंग्येति । व्यंग्यो यो विशेषस्तदाक्षेपि- णस्तदाकर्षित्वादित्यर्थः । 'शब्दोपारूढ' इति । शब्दवाच्य इत्यर्थः । लोचने भामहोक्ते तल्लक्षणाद्योदाहरणे दर्शयति-प्रतिषेध इति । विशेषाभिधित्सया व्यङ्गयभूतविशेषप्रतिपिपादयिषया । यः इष्टस्य वक्तुमिष्टस्य । प्रतिषेध इव


 १. भामह., २.६८. २. भामहु., २.६९.