पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

हेतोः । पुरोऽपि पूर्वस्यां दिशि अग्रे च । गलितं प्रशान्तं पतितं च । रात्र्या कर- णभूतया समस्तं मिश्रितम् ; उपलक्षणत्वेन वा । न लक्षितं रात्रि प्रारम्भोऽसाविति न ज्ञातं, तिमिरसंवलितांशुदर्शने हि रात्रि मुखमिति लोकेन लक्ष्यते न तु स्फुट आलोके । नायिकापक्षे तु तयेति कर्तृपदम् । रात्रिपक्षे तु अपिशब्दो लक्षितमित्यस्यानन्तरः । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा 'पुरोऽग्रे नायकेन तथा गृहोतं मुखमिति सम्बन्धः। तेनात्र व्यङ्गये प्रतीतेऽपि न प्राधान्यम् । तथाहि नायकव्यवहारो निशाशशिनावेव शृङ्गारविभावरूपौ संस्कुर्वाणोs. ङ्लकारतां भजते, ततस्तु वाच्याद्विभावीभूताद्रसनिःष्यन्दः । यस्तु व्याचष्टे-'तया निशयेति कर्तृपदं, न चाचेतनायाः कर्तृत्वमुपपन्नमिति शब्देनैवात्र नायकव्यवहार उ. न्नीतोऽभिधेय एव, न व्यङ्गय इत्यत एव समासोक्तिः' इति । स प्रकृतमेव ग्रन्था. र्थमत्यजद्वयङ्ग्येनानुगतमिति । एकदेशविवर्ति चेत्थं रूपकं स्यात् , 'राजहंसैर- वीज्यन्त शरदैव सरोनृपाः' इतिवत् , न तु समासोक्तिः, तुल्यविशेषणाभावात् ।

बालप्रिया

तिमिरस्य सूक्ष्मांशूनां च सम्मिश्रणं प्रति रात्र्याः करणत्वसम्भवात्तयेति करणे तृतीये- त्याह-करणभूतयेति । तन्मिश्रणं प्रति रात्र्याः ज्ञापकत्वरूपोपलक्षणत्वसम्भवात् तयेत्युपलक्षणे तृतीया वेत्याह-उपलक्षणत्वेन वेति । तस्या उपलक्षणत्वेन तया मिश्रि- तमिति सम्बन्धः । उपलक्षणेन वेति च पाठः । न लक्षितमित्येतदाकारं प्रदर्शयन् व्याचष्टे-रात्रीत्यादि। न ज्ञातमिति । जनैरिति शेषः । लक्षितमिति भावे क्तः । गलि. तमित्यन्तं भिन्नं वाक्यम् । अत एव न लक्षितमिति हेतुहेतुमद्भावं बोधयितुमाह- तिमिरेत्यादि । रात्रिपक्ष इति । अनेनान्यत्र पुरोऽपीत्येव सम्बन्ध इति दर्शितम्। अनन्तर इति । तथा चापिशब्दो गलनालक्षणयोः समुच्चायक इत्यर्थः । कथं नीला- म्बरपुरोगलनमित्यतस्तदुपपादयति-अत्र चेत्यादि । चुम्बनौचित्यानुसारेणाह-यदि वेत्यादि । पुरश्शब्दस्य व्यवहितेन गृहीतमित्यनेनान्वय इति भावः। तेनेति । उक्ते- नार्थद्वयेनेत्यर्थः । व्यंग्ये इति । नायकवृत्तान्तरूपव्यंग्ये इत्यर्थः। अलङ्कारतां भजत इत्यत्र हेतुगर्भ विशेषणम्-निशेत्यादि । संस्कुर्वाणः आरोपेणालङ्कुर्वाणः । एवं व्यंग्यस्य गुणीभूतत्वं प्रदश्य रसापेक्षया ध्वनित्वमप्यस्तीति दर्शयितुमाह-तत इत्या- दि । ततः संस्कृतात् । विभावीभूतादिति । पूर्वं विभावभावमननुभवतः संस्कर- णानन्तरं प्राप्तविभावभावादित्यर्थः । शब्देनेति । निशाशशिशब्देनेत्यर्थः। उन्नीतः अनुमितः, कल्पितो वा । अभिधेय एवेति । अभिधातिरिक्तव्यापाराभावादिति भा- वः । समासोक्तिरिति संज्ञावलाच्चाभिधेयत्वनिश्चय इत्याह-अत एवेत्यादि । प्रत्या- चष्टे-स इत्यादि । 'इति ग्रन्थार्थमिति सम्बन्धः । दूषणान्तरमाह-एकदेशेत्या- दि । इत्थमिति । नायकव्यवहारस्याभिधेयत्व इत्यर्थः । इतिवदिति । यथाऽत्र सरो-