पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
प्रथमोद्योतः


क्त्यादिष्वस्ति । समासोक्तौ तावत्-

उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।।
इत्यादौ व्यङ्गयेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपितनायि-


लोचनम्

न रसोन्मुखीभवति; स्वातन्त्र्येणापि तु वाच्यमेवार्थ संस्कर्तुं धावतीति गुणीभूतव्यङ्गय- तोक्ता । समासोक्ताविति ।

यत्रोक्तौ गम्यतेऽन्योऽर्थस्तत्समा विशेषणैः ।
सा समसोक्तिरुदिता संक्षिप्तार्थतया बुधैः ॥

 इत्यत्र समासोक्तेर्लक्षणस्वरूपं हेतुर्नाम तन्निर्वचनमिति पादचतुष्टयेन क्रमादुक्तम् । उपोढोरागः सान्ध्योऽरुणिमा प्रेम च येन । विलोलास्तारका ज्योतींषि नेत्रत्रिभागाश्च यत्र । तथेति । झटित्येव प्रेमरभसेन च । गृहीतमाभासितं परिचुम्बितुमाक्रान्तं च । निशाया मुखं प्रारम्भो वदनकोकनदं चेति । यथेति । झटिति ग्रहणेन प्रेमरभसेन च । तिमिरं चांशुकाश्च सूक्ष्मांशवस्तिमिरांशुकं रश्मिशवलीकृतं तमःपटलं, तिमिरांशुकं नीलजालिका नवोढाप्रौढवधूचिता । रागाद्रक्तत्वात् सन्ध्याकृतादनन्तरं प्रेमरूपाच्च

बालप्रिया

प्रथमावाच्यस्य द्वितीया वस्तुव्यंग्यस्य तृतीया रसध्वनेश्च कक्षेति स्थितिः । स्वा- तन्त्र्येणेति । वाच्यं विनेत्यर्थः । यत्रोक्ताविति । भामहोक्तमिदम् । लक्षणवाक्यं तात्पर्यतो व्याचष्टे-लक्षणमित्यादि । लक्षणस्वरूपमिति । स्वरूपलक्षणमित्यर्थः । 'लक्षणं स्वरूपमिति च पाठः । अत्र निशाशशिवृत्तान्तः प्राकरणिकत्वाद्वाच्यो नाय- कवृत्तान्तस्त्वप्राकरणिकत्वाद्व्यंग्य इत्यभिप्रेत्य समानविशेषणत्वं विवृणोति-उपोढ इत्यादिना । ज्योतिषां विलोलत्वं प्रतीत्या। नेत्रत्रिभागा इति । नेत्रत्रिभागनिरीक्ष- णानीत्यर्थः । तथा गृहीतमित्येतत्प्रकृतानुगुणतया व्याचष्टे-झटित्येवेत्यादि । ा- क्रान्तमिति । तथैव चुम्बनस्य रसावहत्वात् । यथोक्तम्-“वामो हि काम” इति । एकरूपत्वार्थ यथाशब्दं व्याचष्टे-झटितीत्यादि । तिमिरांशुकमित्यत्र रूपकभ्रमं व्यावर्तयति-तिमिरं चेत्यादि । अल्पार्थे क इत्यभिप्रायेणांशुकपदं व्याचष्टे-सू- क्ष्मांशव इति । अर्थाच्छशिनः । तिमिरांशुकमिति द्वन्द्वैकवद्भावः । फलितमाह- रश्मीति । शबलं चित्रम् । नीलजालिकेति । नीलवर्णपट्टवसनस्य कामशास्त्रप्रसि. द्धं नाम । तस्यात्रौचित्यादुक्तिरित्याह-नवोढेत्यादि । प्रकृते तिमिरांशुकगलनं प्रति रागस्याहेतुत्वात् पूरयति-अनन्तरमिति। पुर इत्यस्य व्याख्यानम्-पूर्वस्यामित्यादि।


 १. भामहः, २. ७९.