पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
सटीकलोचनोपेतध्वन्यालोके


 ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद्धने- र्विषयः । यत्र तु प्रतीतिरस्ति, यथा-समासोक्त्याक्षेपानुक्तनिमित्तविशेषो- क्तिपर्यायोक्तापहृतिदीपकसङ्करालङ्कारादौ, तत्र ध्वनेरन्तर्भावो भविष्यती- त्यादि निराकर्तुममिहितम्-'उपसर्जनीकृतस्वार्थौ' इति । अर्थों गुणीकृ तात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति । तेषु कथं तस्यान्तर्भावः । व्यङ्गयप्राधान्ये हि ध्वनिः । न चैतत्समासो


लोचनम्

श्लोकः। यत्रेत्यलकारे । वैशद्येनेति । चारुतया स्फुटतया चेत्यर्थः । अभिहितमिति भूतप्रयोग आदौ व्यङ्क्त इत्यस्य व्याख्यातत्वात् । गुणीकृतात्मेति । आत्मेत्यनेन स्वशब्दस्यार्थो व्याख्यातः । न चैतदिति । व्यङ्गयस्य प्राधान्यम् । प्राधान्यं च यद्यपि ज्ञप्तौ न चकास्ति; 'बुद्धौ तत्त्वावभासिन्यां' इति नयेनाखण्डचर्वणाविश्रान्तेः, तथापि विवेचकैर्जीवितान्वेषणे क्रियमाणे यदा व्यङ्गयोऽर्थः पुनरपि वाच्यमेवानुप्राणय- न्नास्ते तदा तदुपकरणत्वादेव तस्यालङ्कारता। ततो वाच्यादेव तदुपस्कृताच्चमत्कार- लाभ इति । यद्यपि पर्यन्ते रसध्वनिरस्ति, तथापि मध्यकक्षानिविष्टोऽसौ व्यङ्गयोऽर्थो

बालप्रिया

ति । कारिकायामनुक्तस्याधिकस्यापेक्षितस्यार्थस्यावापः प्रक्षेपः तं कर्तुमित्यर्थः । अलङ्कार इति । उपमास्वभावोक्त्यादावित्यर्थः । आहेत्यनुक्त्वा 'अभिहितमि' त्यु- क्तेर्बीजमाह-अभिहितमित्यादिना । पूर्वोक्तमनुस्मारयति-आत्मेत्यादि । ध्वनि- गुणीभूतर्व्यंग्ययोर्द्वयोरपि प्रतीतिदशायां प्राधान्यप्रतीत्यभावस्य तुल्यत्वात् प्राधान्यं तुल्यमित्याशंक्याभिप्रायप्रकटनेन परिहरति-प्राधान्यं चेत्यादि । प्राधान्यं व्यं ग्यस्य प्राधान्यम् । अखण्डेति । खण्डो गुणप्राधान्यादिलक्षणो भेदः, तद्रहितोऽखण्ड- स्तादृशस्य वाक्यार्थीभूतस्य रसादिव्यंग्यस्य चर्वणायां विश्रान्तेः सहृदयमनसां विश्रा- न्तेरित्यर्थः । विवेचकैः सहृदयैः । अखण्डचर्वणानन्तरमित्यर्थात् । जीवितान्वेषणे क्रियमाण इत्युभयसाधारणम् । यदेत्यादि । यः पूर्वं वाच्यादुत्तीर्णस्तद्व्यंग्यत्वात्स कक्ष्यान्तरङ्गतोऽपि पुनः पूर्वभाविनी वाच्यकक्ष्यां प्रविश्य वाच्यमेवानुप्राणयन्यदा आ- स्ते इत्यर्थः । 'तदालङ्कारतेति सम्बन्धः । अवधार्यत इति शेषः । तदुपकरणत्वा- दिति । तस्य वाच्यस्य उपकरणत्वादङ्गत्वादित्यर्थः । व्यंग्यं विना तच्चारुत्वासिद्धेरिति भावः । एवेति । नान्यथेत्यर्थः। तस्य व्यंग्यस्य । अस्त्वेवं किमत इत्यत्राह- तत इत्यादि । ततः तस्यालङ्कारत्वात् । तदुपस्कृतात् व्यंग्येनालङ्कृतात् । चम- त्कारलाभ इति । यदा पुनर्व्यंग्योऽर्थो वाच्येनोपस्कृतः काव्यमनुप्राणयन्नास्ते तदा तस्माच्चमत्कारलाभ इत्यनेनार्थात् सिध्यति । स्वयमङ्गस्य सत्यङ्गिनि किमित्यङ्गान्तरे पर्यवसानमित्याशङ्कय समाधत्ते-यंद्यपीत्यादि । मध्यकक्षेति । समासोक्त्यादिषु