पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
प्रथमोद्योतः


माणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् । ततोऽन्यच्चित्रमेवे- त्यग्रे दर्शयिष्यामः । यदप्युक्तम्- 'कामनीयकमनतिवर्तमानस्य तस्यो. क्तालङ्कारादिप्रकारेष्वन्तर्भावः' इति, तदप्यसमीचीनम् ; वाच्यवाचकमात्रा- श्रयिणि प्रस्थाने व्यङ्गयव्यञ्जकसमाश्रयेण व्यवस्थितस्य बनेः कथमन्त. र्भावः, वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, स त्वङ्गिरूप एवेति प्रतिपादयिष्यमाणत्वात् । परिकरश्लोकश्चात्र-

व्यङ्गयव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ।।

लोचनम्

मसिद्धो हेतुः । यच्च नृत्तगीतादिकल्पं, तत्काव्यस्य न किञ्चित् । चित्रमिति । विस्म- यकृवृत्तादिवशात् , न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्पन्दमयमित्यर्थः । काव्यानुकारित्वाद्वा चित्रम् , आलेखमात्रत्वाद्वा, कलामात्रत्वाद्वा । अग्र इति ।

प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थितम् ।
द्विधा काव्यं ततोऽन्यद्यत्तचित्रमभिधीयते ॥

 इति तृतीयोद्द्योते वक्ष्यति। परिकरार्थं कारिकार्थस्याधिकावापं कर्तुं श्लोकः परिकर-

बालप्रिया

गुणादिव्यतिरिक्तस्य तस्य नृत्तादिप्रायत्वमेवेति यदुक्तं तदपि निराकरोति-यच्चे- त्यादि । काव्यस्येति। ध्वनिलक्षणलक्षितस्येत्यर्थः। न किञ्चिदिति । उपहास्यता- मावहतीत्यर्थः । वृत्तौ 'सहृदयहृदयाह्लालादकारी'ति ध्वनिगुणीभूतव्यंग्ययोर्ग्रहणमि- त्यभिप्रायेण 'ततोऽन्यच्चित्रमे 'वेत्यत्र चित्रपदं व्याचष्टे-विस्मयकृदिति । वृत्ता- दीत्यादिपदेन यमकोपमादिपरिग्रहः । विवक्षितं व्यवच्छेद्यमाह-न त्वित्यादि । गौ- णो वा काव्यस्य चित्रपदेन व्यवहार इत्याह-काव्येत्यादि । काव्येति । ध्वनिका- व्यत्यर्थः । विष्ण्वाद्यनुकारित्वमालेख्यमानत्वं कलारूपत्वं च लोकप्रसिद्धचित्राणामस्ती- ति तद्योगात्काव्ये चित्रशब्दप्रवृत्तिरित्यर्थः । वाकारस्समुच्चये । वृत्तौ 'प्रस्थान' इति । अलङ्कारादावित्यर्थः । 'वाच्ये त्यादि । अलङ्कारादय इत्यर्थः । 'तस्य' ध्वनेः । 'सः' ध्वनिः। 'प्रतिपादयिष्यमाणत्वातू' वक्ष्यमाणत्वात् । परिकरस्य सापेक्षत्वात्कस्येत्यपेक्षा- यामाह-कारिकार्थस्येति । परिकार्थमित्यस्य व्याख्यानम्-अधिकावापं कर्तुमि-


१. वृत्त्यादिवशादिति पाठः । तत्र वृत्तय उपनागरिकाद्याः ।

२. ध्वन्या.,३.४२.