पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
सटीकलोचनोपेतध्वन्यालोके


नुप्रासादिभ्यश्च विभक्त एव ध्वनेर्विषय इति दर्शितम् । यदप्युक्तम्- 'प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेध्वनिर्नास्ति' इति, तद प्ययुक्तम् । यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्य-


लोचनम्

शब्दार्थयोर्ध्वननमिति । कारिकया तु प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिरिति प्रतिपादितम् । विभक्त इति । गुणालङ्काराणां वाच्यवाचकभावप्राणत्वात् । अस्य च तदन्य व्यङ्गयव्यञ्जकभावसारत्वान्नास्य तेष्वन्तर्भाव इति । अनन्यत्र भावो विषय शब्दार्थः। एवं तद्वयतिरिक्तः कोऽयं ध्वनिरिति निराकृतम्। लक्षणकृतामेवेति । लक्षणकाराप्रसिद्धता विरुद्धो हेतुः ; तत एव हि यत्नेन लक्षणीयता । लक्ष्ये त्वप्रसिद्धत्व-

बालप्रिया

न्यात् । मुख्यतयेति । इतरेषान्त्वमुख्यतयेति भावः । ध्वनिरित्यादि । रूढया ध्वनिपदार्थत्वेनोक्तमित्यर्थः । तथाच सः तथाविधः शब्दवाच्य व्यङ्गयव्यञ्जनसमु. दायात्मकः काव्यविशेषो ध्वनिरिति कथितः । रूढया ध्वनिपदवाच्यत्वेन कथित इति कारिकार्थः । तथाविधकाव्यविशेषत्वं लक्षणं, रूढया ध्वनिपदवाच्यत्वं लक्ष्यतावच्छेद- कम्। यद्यपि 'काव्यस्यात्मेति प्रस्तुतस्य ध्वनेर्लक्षणं व्यङ्गयत्वमात्रमिति तदेव वक्तव्यं, तथाप्येवं काव्यविशेषघटितलक्षणस्यैव प्रकृत उपयोगात्तदभिहितमिति च बोध्यम् । वृत्तौ 'अनेनेति । एवं लक्षणप्रतिपादनेनेत्यर्थः । 'उपमादिभ्य' इत्यादि । तद्विषयेभ्य इत्यर्थः। 'विभक्तः' भिन्नः । कथं ध्वनेरुपमादिभ्यो विभक्तविषयत्वमित्यत आह-गु- णेत्यादि । वाच्यवाचकाश्रयत्वात्तद्भावोपजीवित्वम् । उक्तार्थोपपादनाय 'विशेषेण सिनोति बध्नाति स्वसम्बन्धिनं पदार्थमिति व्युत्पत्तिमभिप्रेत्य विषयशब्दस्यार्थमाह- अनन्यत्र भाव इति । अन्यत्र सद्भावस्याभाव इत्यर्थः । विषयशब्दार्थः विशेषण- विधया विषयशब्दप्रतिपाद्यः । 'ध्वनेर्विषय' इत्यस्य यस्मादन्यत्र ध्वनिव्यवहारस्य ‘सद्भावो नास्ति, स इत्यर्थ इति भावः। लक्षणप्रतिपादनेनैव प्रथमाभाववादिम निराकृतमित्यभिधायेण वृत्तिकृतो 'यदप्युक्तमित्यादिना द्वितीयाभाववादिमतदूषणाभिधा- नमिति प्रदर्शयितुमाह-एवमित्यादि। एवमिति । निर्दोषलक्षणकथनमुखेन ध्वनेः सद्भावस्य समर्थितत्वेनेत्यर्थः । इतीति । उपसंहारोक्तमेतदित्यर्थः । ध्वनिर्नाम का- व्यप्रकारो न काव्यशब्दवाच्यः प्रसिद्धप्रस्थानातिक्रामित्वादिति परमतस्य प्रसिद्धप्र- स्थानातिक्रामित्वादित्यनेन लक्षणकाराप्रसिद्धत्वं लक्ष्याप्रसिद्धत्वं वा विवक्षितमिति वि- कल्पमभिप्रेत्य यत इत्यादिना दूषणमभिहितमिति व्याचष्टे-लक्षणेत्यादि । विरुद्ध- त्वं साधयति-तत एवेति । लक्षणकाराप्रसिद्धत्वादेव । काव्यविशेषेषु ध्वनिलक्षणा- नुगमनेन काव्यशब्द वाच्येष्वपि लक्षणकाराप्रसिद्धत्वहेतोर्वर्तनाद्विरुद्धो हेतुरित्यर्थः ।