पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
प्रथमोद्योतः


लोचनम्

क्षण 'आत्मे'त्युक्तम् । तेनैतन्निरवकाशं श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति । यचोक्तम्-'चारुत्वप्रतीतिस्तर्हि काव्यस्यात्मा स्यात्' इति तदङ्गीकुर्म एव । नाम्नि खल्वयं विवाद इति । यच्चोक्तम्- 'चारुणः प्रतीतिर्यदि काव्यात्मा प्रत्यक्षादिप्रमा- णादपि सा भवन्ती तथा स्यात्' इति । तत्र शब्दार्थमयकाव्यात्माभिधानप्रस्तावे क एष प्रसङ्ग इति न किञ्चिदेतत् । स इति । अर्थो वा शब्दो वा, व्यापारो वा । अर्थोऽपि वाच्यो वा ध्वनतीति, शब्दोऽप्येवम् । व्यङ्गयो वा ध्यवन्यत इति व्यापारो वा

बालप्रिया

ङ्गद्यत्वात् । तेनेति । यतो गुणालङ्कारोपस्कृतशब्दार्थपृष्ठपातिनो ध्वनिव्यवहार- स्तत इत्यर्थः । स्यादिति । 'पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ रात्रिभोजनादेर्ग- म्यत्वादिति भावः । चारुत्वप्रतीतिस्तर्हीत्यादि। यदि चारुत्वहेतुतया प्रसिद्धेभ्यो गुणादिभ्योऽन्यः काव्यात्मा स्यात्तर्हि चारुत्वप्रतीतिरेव तदात्माऽस्तु, तस्याः दृष्ट. त्वेनादृष्टवस्त्वन्तरकल्पने गौरवादिति तदतिरिक्त्तो न ध्वनिरित्याक्षेपः । कुतोऽङ्गी. कार इत्यत आह-नाम्नीति। खलुरवधारणे । चारुत्वप्रतीतिरित्यस्य चारुत्वप्र- तीतेर्विषयो हेतुर्वा कश्चिद्गुणादिभ्योऽन्य इत्यर्थस्य वक्तव्यतया ध्वनिनाम्न्येव विवाद इत्यर्थः । चारुणः प्रतीतिरिति । चारुवस्तुप्रतीतिरित्यर्थः । वस्तुविशेष्यकचारुत्व- प्रतीतिरिति यावत् । सेति । चारुवस्तुप्रतीतिरित्यर्थः । तथा ध्वनिव्यवहारविषयः । प्रकरणानभिज्ञोऽसौ पूर्वपक्षी, अत उपेक्ष्य इति परिहरति-तत्रेत्यादि । तत्र प्रत्यक्षा- दिविषये । 'एष प्रसङ्गः क' इति सम्बन्धः । ननु काव्यस्य शब्दार्थव्यापारात्मकत्वेन बहूनां सम्भवात् कस्येदं “स काव्यविशेषो ध्वनि रिति ध्वनिसंज्ञितत्वाभिधानमित्यत आह–अर्थो वेत्यादि । कस्य कथं ध्वनिशब्दवाच्यत्वमित्यत्राह-अर्थोऽपी- त्यादि । सर्वत्र इतिशब्दो 'ध्वनिरिति प्रतिपादितमित्यनेन सम्बध्यते । एवमिति । ध्वनतीति प्रकारेणेत्यर्थः। शब्दवाच्यव्यङ्गयव्यञ्जनानि चत्वार्यपि योगेन ध्वनिशब्द- वाच्यानीत्यर्थः । प्राधान्येनेति मुख्यतायां हेतुः ; समुदायस्य समुदाय्यपेक्षया प्राधा-


 १. "दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना अर्थापत्तिरिति शावरं भाष्यम् । दृष्टशब्दः प्रमितमात्रवचनः । शब्दप्रमाणप्रमित इति श्रुतपदस्यार्थः । श्रुतपदस्य पृथगुपादानं त्वर्थविषयदृष्टार्थापत्यपेक्षयाऽस्याः श्रुतार्थापत्तेः प्रमाणग्राहिणी- वेन वैलक्षण्यप्रदर्शनार्थम् । तथा च लक्षणपरभाष्यस्याय मर्थः-प्रमाणषट्केण प्रमि. तस्यार्थस्यार्थान्तरेण विनानुपपत्तिमालोच्य तदुपपत्तये याऽर्थान्तरकल्पना सा अर्थाप- त्तिरिति । तत्र शब्दपूर्विका प्रमाणग्राहिण्यापत्तिः श्रुतार्थापत्तिरिति व्यवहियते । पानो देवदत्तो दिवा न भुङ्क्ते' इति श्रुतेन वाक्येन दिवाऽभुआने देवदत्ते पीनत्वरूपो योऽर्थः प्रमितः, तदन्यथानुपपत्तिमालोच्य तदुपपत्तये 'रात्रौ भुक्त' इति रात्रिभोजनरूपार्थ- प्रतिपादकवाक्यान्तरस्य कल्पनाच्छ्रुतार्थापत्तिरियमिति बोध्यम् ।

       १४