पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
सटीकलोचनोपेतध्वन्यालोके


 यन्नार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यक्तः, स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽ


लोचनम्

इति यदुक्तम् । व्यङ्गः द्योतयतः । व्यङ्क्त इति द्विवचनेनेदमाह-यद्यप्यविवक्षित. वाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति, अन्यथा अज्ञाता- र्थोऽपि शब्दस्तयद्व्यञ्जकः स्यात् । विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव, विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थ- योरुभयोरपि ध्वननं व्यापारः । तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलि- कयैव । अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण । काव्यं च तद्विशेष- श्वासौ काव्यस्य वा विशेषः । काव्यग्रहणाद्गुणालङ्कारोपस्कृतशब्दार्थपृष्ठपातो ध्वनिल-

बालप्रिया

विधः शब्दश्चेत्यर्थः । नन्वेकैकत्र शब्दार्थयोरेकैकस्यैव व्यञ्जकत्वात् व्यंक्त इति द्विवच- नमनुपपन्नमित्यत आह- -द्विवचनेनेत्यादि । उभयोरपि ध्वननं व्यापारः 'द्विवचनेने- दमाह' इति सम्बन्धः । विशिष्टशब्देति । यथारसं वर्णानां भेदादिति भावः । तेनेति । युक्त्या द्विवचनसमर्थनेनेत्यर्थः । गजनिमीलिकयेति । यथा गजस्याक्षि. निमीलनं न बुद्धिपूर्वकमपि तु स्वभावत एवेत्यविचारो गजनिमीलिकाशब्देन लक्ष्यते । ननु यदि समुच्चयस्तर्हि 'अर्थशब्दाविति भाव्यमित्यत आह–अर्थ इत्यादि । प्राधा- न्येति । व्यञ्जनप्राधान्येत्यर्थः । अयं भावः-वाकारोऽत्र शब्दार्थयोः व्यञ्जनक्रियाक. र्तृत्वे विकल्पस्य न बोधकः, येन “शिरश्श्वा काको वा द्रुपदतनयो वा परिमृशे दि- त्यादाविवैकवचनं भवेत् , अपि तु व्यञ्जनक्रियायां कर्तृत्वेनान्वितयोः शब्दार्थयोः व्यञ्ज- नप्राधान्ये विकल्पमवगमयति । तथा च विकल्पितव्यञ्जनप्राधान्यौ शब्दार्थों व्यङ्क्त इति वाक्यार्थ इति । विशेषशब्दस्य विशिष्टार्थत्वाभिप्रायेण विवृणोति-काव्यमित्यादि। पक्षान्तरमाह-काव्यस्य वेति । काव्येत्यादि । 'यो ध्वनिलक्षण आत्मा स तथाविधशब्दार्थपृष्ठपातीति काव्यग्रहणादुक्तमिति संबन्धः । शब्दार्थपृष्ठपातित्व तद्व्य


 १. 'विशिष्टेति । प्रमाणेत्यर्थः । आप्तोचरितेति यावत् । अत एव 'शब्दप्रमा- णवेद्योऽर्थो व्यनस्त्यर्थान्तरं यतः । अर्थस्य व्यजकत्वे तच्छब्दस्य सहकारिता' ( काव्यप्र., ३. ५.) इति काव्यप्रकाशस्सगच्छते । गुणालङ्कारोपस्कृतेति वा विशि: टशब्दार्थः । अनुपदं स्वयमेव तथा वक्ष्यमाणत्वात् ।

२. परित्यक्ते देहे रणशिरसि शोकान्धमनसा
शिरःश्वा काको वा द्रुपदतनयो वा परिमृशेत् ।
असंख्यातास्त्रौघद्रविणमदमत्तस्य च रिपो-
ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ ( वेणी., ३. २२.)।