पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
प्रथमोद्योतः


 एवं वाच्यव्यतिरेकिणो व्यङ्गयस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उप-

योजयन्नाह-

यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः : स ध्वनिरिति सूरिभिः कथितः ॥१३॥


लोचनम् -

 सद्भावमिति । सत्ता साधुभावं प्राधान्यं चेत्यर्थः । द्वयं हि प्रतिपिपादयिषितम् । प्रकृत इति लक्षणे । उपयोजयन् उपयोगं गमयन् । तमर्थमिति चायमुपयोगः । स्व. शब्द आत्मवाची । स्वश्चार्थश्च तो स्वार्थों ; तौ गुणी कृतौ याभ्याम् ; यथासंख्येन तेनार्थो गुणीकृतात्मा, शब्दो गुणीकृताभिधेयः । तमर्थमिति । 'सरस्वती स्वावु तदर्थवस्तु'

बालप्रिया

नवभासाङ्गीकाराच्चेति यावत् । न विरोध इति । इदमुपलक्षणम् , दृष्टान्तवैषम्यमपि नास्तीति बोध्यम् ॥ १२ ॥

 'साधुभावमि'त्यस्य व्याख्यानं–प्राधान्यमिति । इत्यर्थ इति । यथोक्तम्- "सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते” इति । द्वयमुक्तार्थद्वयम् । लक्षण इति । प्रस्तुतस्य ध्वनेर्लक्षण इत्यर्थः । उपयोगमिति । अर्थाद्व्यंग्यसद्भावस्य। केनांशेनोपयो. जनमित्यत आह- -तमिति । व्यङ्गयस्य सद्भावे सिद्ध एव तमर्थमिति तत्पदेन परा. मर्शो युज्यत इति भावः । अर्थस्यार्थाभावाद्याचष्टे-स्वश्चेत्यादि । 'उपसर्जनीकृता- विश्त्यस्य विवरणम्-गुणीकृताविति । फलितमाह-तेनेत्यादि । तथाविधोऽर्थस्तथा-


 १. 'स्वं चासावर्थश्च तौ स्वार्थौ' इत्यपि पाठस्समीचिनः। आत्मनि स्वशब्दस्य नपुंसकतायास्साधुत्वात् । यद्यपि स्वशब्दः पुलॅलिङ्ग एव, 'विभाषा जसीति प्रकरणे 'स्वमात्मीये' इत्येव प्रतिपादनीये 'स्वमज्ञातिधनाख्यायामिति गुरुभूतसूत्रनिर्देशस्यैव प्रमाणत्वात् , 'द्यौस्स्वर्गनभसोः स्वो ज्ञात्यात्मनोस्स्वं निजे धने' इति हेमचन्द्रोक्तः, 'स्वः स्यात् पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने' इति मेदिनीकोशात् , 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने, इत्यमरकोशे स्वमित्यस्य आत्मीये, आत्मनीत्यस्य स्व इति पूर्वस्मिन्नन्वयेन तद्विरोधशङ्कानुत्थानाच्च, तथाप्यमरकोश इत्थं क्लिष्टान्वयकल्पने 'स्वो ज्ञातावात्मनि धने त्वस्त्री आत्मीयके. त्रिषुः इति पाठं विहाय त्रिः स्वशब्दोपादानस्य वैयर्थ्यात् ,

'बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहाना ।
रागश्रिया शैशवयौवनीयां स्वमाह सन्ध्यामधरोष्ठलेखा' ॥

                                     (नैषध., ७. ३७)

 इति नैषधीयपद्ये 'बन्धूकबन्धूभवदिति विशेषणकात्मार्थकस्वशब्दस्य प्रयोग. करणाच्च स्वशब्दस्यात्मार्थकत्वे नपुंसकत्वमप्यस्त्येवेति सूक्ष्ममीक्षणीयम् ।