पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
सटीकलोचनोपेतध्वन्यालोके


 यथा स्वसामर्थ्यवशेनैव वाक्यार्थ प्रकाशयन्नपि पदार्थो व्यापारनि-

ष्पत्तौ न भाव्यते विभक्ततया ।

तद्वत्सचेतसां सोऽर्थों वाच्यार्थविमुखात्मनाम् ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ १२ ॥


लोचनम्

न भाव्यत इत्यर्थः । अनेन विद्यमान एव क्रमो न संवेद्यत इत्युक्तम् । तेन यत्स्फो- टाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव । वाच्येऽर्थे विमुखो विश्रा. न्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थोऽ- भिव्यक्तः । सहृदयानामेव तर्ह्यं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्या- शङ्कयाह-अवभासत इति । तेनात्र विभक्ततया न भासते, न तु वाच्यस्य सर्वथै- वानवभासः। अत एव तृतीयोद्दद्योते घटप्रदीपदृष्टान्तबलाद्वयङ्गयप्रतीतिकालेऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य ग्रन्थस्य न विरोधः ॥११, १२॥

बालप्रिया

वनमात्रनिषेधेन वस्तुसत्ताया अभ्यनुज्ञानादित्यर्थः । तेनेति । विद्यमानक्रमालक्षणप्रति- पादनेनेत्यर्थः । विरुद्धमेवेत्यनेनास्य सम्बन्धः । स्फोटाभिप्रायेणेति । वाक्यतदर्था- वविभक्तस्फोटरूपावित्यभिप्रायेणेत्यर्थः ।

 कारिकायां 'सोऽर्थ' इति । वाक्यार्थरूपवाच्यार्थ इत्यर्थः । 'तत्वार्थेति । व्यंग्या- र्थेत्यर्थः। 'वाच्यार्थविमुखात्मना'मित्यत्र विमुखशब्दं प्रकरणलब्धमर्थमादाय व्याचष्टे- वाच्य इत्यादि । विश्रान्तिरेव निबन्धनं कारणं यस्य तम् । नात्यन्तं वाच्यबहि- र्मुख इति भावः । विशेषणस्यास्य फलमाह-अनेनेति । अभिव्यक्तः प्रदर्शितः । सहृदयानामेवेत्यादि । यद्युक्तलक्षणसहृदयबुध्युपाधिकमस्य झाटित्येन स्फुरणं, तर्ह्य- न्वयव्यतिरेकाभ्यां तद्बुद्धेरेव तद्धेतुत्वात्सहृदयानामेव लोकोत्तरः कश्चिदतिशयोऽयं न काव्यस्येत्यर्थः । अवभासत इतीति । काव्यश्रवणसमयसमनन्तरसमासाद्यमान- जन्मनस्तदर्थावभासस्य कार्यस्य परिस्फुटोपलब्धस्य काव्यव्यापारैकनिबन्धनत्वनि- श्चयात्काव्यस्यैवायमतिशय इति भावः । तेनेत्यादि । तेन उक्तेन कारिकाद्वयव्याख्या- नप्रकारेण । अत्र वाच्यार्थे । विभक्तता व्यंग्यार्थापेक्षया पृथक्त्वम् । न भासते विभक्तत्वस्य केवलमनवभासनमित्यर्थः । सर्वथैवेति । स्वरूपेणापीति यावत् । केचित्तु 'विभक्ततयेति पठित्वा अत्रेति बुद्धावित्यर्थः । विभक्ततयेति । वाच्यादित्यर्थात् । न भासत इति व्यङ्गयोऽर्थ इति शेषः ; येन क्रमो लक्ष्येत इति व्याचक्षते । अत ए. वेति । उक्तव्याख्यानादेवेत्यर्थः। वाच्यस्य स्वरूपतोऽवभासाङ्गीकरणाद्विभागमात्रस्या-


 १ तृतीयोद्यते ३३ कारिकायामयं विषयो विवृतः ।