पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
सटीकलोचनोपेतध्वन्यालोके


प्राधान्यं व्यङ्गयस्य चानुयायित्वं प्रसिद्धमेव । सङ्करालङ्कारऽपि यदालं.


लोचनम्

 एतद्धि भगवद्वासुदेववचनं पर्यायेण रसदानं निषेधति । यत्स एवाह-'तच्च रसदाननिवृत्तये' इति । न चास्य रसदाननिषेधस्य व्यङ्गयस्य किञ्चिच्चारुत्वमस्ति येन प्राधान्यं शङ्कयेत । अपि तु तव्द्यङ्गयोपोद्वलितं विप्रभोजनेन विना यन्नभोजनं तदेवोक्तप्रकारेण पर्यायोक्तं सत्प्राकरणिकं भोजनार्थमलङ्कुरुते । न ह्यत्य निर्विषं भोजनं भवत्विति विवक्षितमिति पर्यायोक्तमलङ्कार एवेति चिरन्तनानामभिमत इति तात्पर्यम् । अपह्नुतिदीपकयोरिति । एतत्पूर्वमेव निर्णीतम् । अत एवाह-प्रसिद्धमिति । प्रतीतं प्रसाधितं प्रामाणिकं चेत्यर्थः । पूर्वं चैतदुपमादिव्यपदेशभाजनमेव तद्यथा न भवतीत्यमुया छायया दृष्टान्ततयोक्तमप्युदेशक्रमपूरणाय ग्रन्थशय्यां योजयितुं पुन- रप्युक्तं 'व्यङ्ग्यप्राधान्याभावान्न ध्वनिरिति । छायान्तरेण वस्तु पुनरेकमेवोपमाया एव व्यङ्ग्यत्वेन ध्वनित्वाशङ्कनात् । यत्तु विवरणकृत्-दीपकस्य सर्वत्रोपमान्वयो ना- स्तीति बहुनोदाहरणप्रपञ्चेन विचारितवांस्तदनुपयोगि निस्सारं सुप्रतिक्षेपं च ।

मदो जनयति प्रीति सानङ्गं मानभञ्जनम् ।

बालप्रिया

भुञ्ज्महे' इत्यन्वयः । वचनमिति । चैद्यं प्रतीति शेषः । पर्यायेणेति । अवगमा- त्मना प्रकारान्तरेणेत्यर्थः । रसदानं निषेधतीति । विषदाननिवृत्तिं बोधयतीत्यर्थः । चैद्यसङ्कल्पितमन्नयोजितविषदानं मे मा भवत्विति, भोजनं निर्विषं भवत्विति वा भग वतोऽभिप्रायस्सहृदयानां व्यङ्ग्यो भवतीत्यर्थः । 'चारुत्वं नास्तीति सम्बन्धः । वाच्यस्यैव चारुत्वमिति भावः । तद्व्यङ्ग्येति। उक्तव्यङ्ग्येत्यर्थः । तदेव वाच्यन्त- देव । उक्तप्रकारेणेति । अवगमात्मना व्यङ्ग्येनोपलक्षितत्वेनेत्यर्थः । प्राकरणिकं भोजनार्थमिति । प्रकरणसिद्धमधीतिभुक्तशिष्टमन्नं भुञ्जमहे इत्येवंभूतमर्थमित्यर्थः । व्यङ्ग्यस्याविक्षितत्वेन चाप्राधान्यमित्याह-न ह्यस्येति । अस्य वासुदेवस्य । न विवक्षितं चैद्यं प्रति न बुबोधयिषितम् । उपसंहरति-इतीति । प्रसिद्धपदं विधा व्याचष्टेः-प्रतीतमित्यादि। दीपकापह्रुत्यादाविति पूर्वोक्तस्यैवाद्यकथनेन पौनरुक्त्य- मित्याशङ्कायां स्वरूपैक्येऽपि प्रकारभेदान्न पौनरुक्त्यमित्याह-पूर्वमित्यादि । इत्य- मुया च्छाययेति । इत्यनेन प्रकारेणेत्यर्थः । 'व्यग्यप्राधान्याभावान्न ध्वनिरिति पुनरप्युक्तमिति सम्बन्धः । वस्त्विति । व्यङ्ग्यत्वेऽप्युपमाया अप्राधान्यरूपं वस्त्वि. त्यर्थः । उपमान्वयप्रदर्शनेन सुप्रतिक्षेपत्वमाह-मद इत्यादि । मदः विशिष्टविषय- निषेवाज्जनितो हर्षः । प्रीतिं विषयाभिषङ्गम् । मानः चित्तसमुन्नतिः, तद्भञ्जनमित्य-


 १. 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इति कोशः ।

 २. भामह, २. २७,