पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ कारिकावृत्योरेकत्वाने कत्वविचार: एते ध्वन्यालोकेन साकं देवीशतकम्' 'विनिश्चयटीकाविवृति" 'अर्जुनचरितमहाकाव्यम्' 'विषमबाणलीला' 'तत्त्वालोकः' इति च ग्रन्थान् प्राणेषुरित्यवगम्यते । तत्र ध्वन्यालोक एव 'काव्यालेका सह. दयालोकः' इति नामभ्यां व्यवह्रियते। अस्मिश्च ग्रन्थे कारिकारूपेण तवृत्तिरूपेण च द्वौ भागावुपलभ्येते । तत्र वृत्तिकार एव कारिका. कारोऽपि, उत तस्मादयमन्य इति बहाः कालादनिश्चित एव पण्डित- समाजे वर्तते । वस्तुतः संशयास्पदमेवायं विषयः, झटिति निर्णतुम शक्यश्च । बलवत्तरप्रमाणानुपलम्भाबहव ऐक्यमेव मन्यन्ते । मह- चैतद्विषये सन्दिहानः सन्देहमिमं दूरीकर्तुं विदितवेदितव्यान पण्डित- कुलतिलकान् पूज्यपादान श्रीगुरुवरान् महामहोपाध्याय श्रीप्रमथनाथतर्कभूषण. महोदयान् अप्राक्षम् । तेऽपि सुविचार्य 'उभयोरपि भेदमेवाकलयामि' इत्यूचुः । युक्तमेवेदं मे प्रतिभाति । लेोचने श्रीमन्तोऽभिनवगुप्तपादाः कारिकाकारं वृत्तिकारश्च भेदेन व्यपदिशन्ति । प्रथमोद्योते एकोनविंश. कारिकाव्याख्यानावसरे द्वितीयोद्योते कारिकाकारोऽवान्तरविभागं विशेषलक्षणच विद्धदनुवादमुखेन मूलविभागं द्विविधं सूचितवान् । तदाशयानसारेण तु वृत्तिकृत्रैवोद्योते मूलविभागमवोचत्' इति, तथा षड्विंशकारिकायां लोचने 'इत्यत्र श्लोके वृत्तिकृत्' इति, वृत्ति कारेण त्वन्धयपूर्वको व्यतिरेक इति शैलीमनुरात॒मन्वयः पूर्वमुपातः' इति, एवं द्वितीयोद्योते प्रथमकारिकाव्याख्यानावसरे-तत्र प्रथमोधोते वृत्तिकारेण प्रकाशितः' "भवति मूलतो द्विभेदत्वं कारिकाकारस्या- पि सम्मतम्' इति, एवमन्यत्र बहुषु स्थलेषु 'कारिकाकारस्तु' वृत्तिका. रेण तु' इत्येवं व्यवहरन्त उभयो)दमेवाभिप्रयन्ति लेोचकारा इत्यनु. मीयते । यद्युभयोम्रन्थ सन्दर्भयोः एक एव कर्ता अभविष्यत् तर्हि लोच- नकदेवं भेदेन न व्याहरिष्यत् । किश्च वृत्तिकारास्तत्र तत्र कारिका- व्याख्यानावसरे स्वव्याख्याया विषयान् सङ्ग्रहेण पद्यनिर्दिशन्ति । तेषां पद्यानां मूलकारिकाणाच भाषयापि भेदोऽवगम्यते । इतोऽपि बलवतः प्रमाणस्यास्मिन्विषयेऽनुपलम्मादेतावदेवात्रोपरभ्यते । 1. अयमेव प्रन्थः तृतीयोद्यातान्ते. 'यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तन्मतपरीक्षायां प्रन्थान्तरे निरूपयिष्यामः इत्यत्र 'प्रन्थान्तरएशब्देनोल्लिख्यते वृत्तिकारेण । 2. See Page 163. 3. See page 259.