पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्वन्यालोकस्य व्याख्या अभिनवगुप्ताश्च ध्वन्यालोकस्यास्य द्वे व्याख्ये-चन्द्रिका, लेचिनश्चेति । तत्राधाऽनु. पलम्भदोषदूषिता। लोचनञ्चास्माकं लौभाग्यवशादुपलभ्यते । अस्य च निर्मातारः श्रीमदाचार्याभिनवगुप्तपादाः। चन्द्रिकामवलोक्यैवेमे लोचनमररचन्निति प्रतीयते । तत्र तत्र लेोचने 'इत्यलमस्मत्पूर्ववंशीय. स्सह विवादेन' इति निर्दिशन्तः 'पूर्ववंशीयैरिति पदेन चन्द्रिकाकार- मेवाभिप्रयन्तीत्यनुपीयते । एतेषां पाण्डित्यमधिकृत्य विवेचने नास्मा. कमधिकारः । इमे च काश्मीरानेव जन्मनालश्चक्ररित्यवगम्यते । एतेषां पितरौ नरसिंहगुप्तविमलाख्यौ । तन्त्रालोकव्याख्यात्रा स्पष्टमिदमु- लिलख्यते-१मस्य हि ग्रन्थतः नरसिंहगुप्तविमलाख्यौ पितरौ इति गुरवः' इति । तन्त्रालाकस्य ३७ अध्याये स्वयमैवेमे स्वपितुरन्वयं निर्दिशन्ति- 'तस्मिन कुबेरपुरचारुशितांशुमौलिसांमुख्यदर्शनविरुढपवित्रभागे। चैतस्तरोधसि निवालममुष्य चके राजा द्विजस्य परिकल्पितभूमिसम्पत्॥ तस्यान्वये महति कोऽपि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले । गीर्वाणसिन्धुलहरीकलितानमूर्धा यस्याकरोत्परमनुग्रहमाग्रहेण ॥ तस्यात्मजः चुखुलकेति जने प्रसिद्धश्चन्द्रावदातधिषणा नरसिंहगुप्तः । यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलङ्कुरुते स्म भक्तिः ॥इति। नरसिंहगुप्तः स्वीयं पुत्रमभिनवगुप्तं बाल्यावस्थायामेवाध्ययनाय कस्याञ्चन वलभौ प्रवेशयामास । तत्र पठन्नयं मतिसौदम्यात् बुद्धः मुखरत्वाच्च सर्वानप्यध्येतनतिशयानः निखिलानामपि बालानां भय. प्रदवालीत् । तदा तत्रत्येन गुरुणाऽयं 'बालवलभीभुजङ्गः' इति नाम्ना व्यपदिष्ट इत्यपि काव्यप्रकाशीयबालबोधिनीटीकातोऽवगम्यते । तत्र च कञ्चित्कालमधीत्यानन्तरं स्वपितुस्सकाशादेव व्याकरणमध्यगीष्ट । 'भद्देन्दुराजचरणाजकृताधिवासहृयश्रुतोऽभिनवगुप्तपदाभिधेोऽहम् इति लोचनस्थपद्येन भट्टन्दुराजसकाशात् साहित्यमधीतमिति स्पष्टं प्रतीयते। एवं ब्रह्मविद्यां (वेदान्तं ) भूतिराजात् , भूतिराजतनयाच शैवमतं, वामनाथता द्वैताद्वैततन्त्रम् , श्रीमदुत्पलाचार्यपुत्रात् लक्ष्मणगुप्तनाथाञ्च 1. See T. A. Comm. 1, 14, २. 'पित्रा स शब्दगहने कृतसन्निवेशः इति तन्त्रालोकदीकाकारः । ३. 'अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययदायिनी । शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् । ४. 'श्रीनाथसन्ततिमहाम्बरधर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः' भामर्दसन्ततिमहार्णवकर्णधारः सद्देशिकैरकवरात्मजवामनाथः । ३ व०