पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 मानन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥ इति । त इमे महाभागाः कस्मिन् काले कुत्र भुवमिमा जन्मनाऽलङ्कृत्य ग्रन्थमिमं व्यतेनुरिति याथातथ्येन निर्णयो यद्यपि न सुकरः, तथापोति. हासग्रन्थालेोडनेनैवं निर्णतुं शक्यते-काश्मीरेषु क्रिस्तोः पश्चात् (855- 884. A. D.) समये राज्यं पालयतोऽवन्तिवर्मणा महाराजस्य सभायां राज्ञा तेन सम्मानिता श्रासन् इति । तदिदमुक्तं केनचिदभियुकेन - मुक्तामणिश्शिवस्वामी कविरानन्दवर्धनः । प्रथां रत्नाकरश्चागात्साराज्येऽवन्तिवर्मणः ॥ इति । इमे हि ध्वन्यालोके नाम्ना उद्धृतश्लोकद्वारा च कालिदास, पुण्डः रीकं, वाणं, भट्टोद्भटं, भामह, मनोरथं, सर्वसेनं, सातवाहनम् , अमरुक, धर्मकीर्ति, मधुमथनविजयं, रत्नावली, तापसवत्सराजं रामाभ्युदयश स्पृशन्ति । तत्र तत्वबिन्दुकर्ता बौद्धमतावलम्बी धर्मकीर्तिः किस्तोः पश्चात् (635-650 A. D.) सप्तमशतके आसीदिति सर्वैरायेतिहासि- कैनिर्विवादमभ्युपगम्यते । एतदुपष्टम्भिका युक्तयः पुरावृत्तविमर्शक. धुरीणैः श्रीसतीशचन्द्रविद्याभूषणमहोदयः स्वकृते "The History of Indian Logic' इति सज्ञिते 'ग्रन्थे सुनिरूपिताः । इतिहास- तत्त्वान्वेषणतत्पराः श्रीमन्तो M. कृष्णमाचार्या अपि स्वकृते संस्कृ. तेतिहासप्रन्थे क्रिस्ताः पश्चात् षष्ठशतकस्यान्ते सप्तमशतकस्यादौ च धर्मकीर्तिरवर्तत इत्यक्षिप्रयन्ति । एवं वामनः स्वकृते काव्यालङ्का- रसूत्रे शिशुपालवधेोत्तररामचरितकादम्बरीतः उदाहरणानि निर्दि- शन् किस्तोः पश्चात् अष्टमशतकस्थान्ते नवमशतकस्यादौ वा स्वस्थ स्थितिमवगमयति । क्रिस्तोः पश्चात् नवमशतकावसानकालिका श्रीमान् भट्टनायका स्वविरचिते हृदयदर्पणे ध्वन्यालोकं खण्डयतीति लोचनादितस्सर्वविदितमेव । अतश्च नवमशतकमध्यवर्तित्वमेवाऽऽनन्द. वर्धनाचार्याणामवगम्यते । किञ्चानन्दवर्धनाचार्यविरचितदेवीशतकस्य व्याख्या काचन चन्द्रादित्यसूनुना कैयटेन विरचिता समुपलभ्यते । तत्र च तेन स्वकीयो ग्रन्थः क्रिस्तोः परं ( 978 A. D.) समये समाप्ति. मगादिति स्पष्टमुल्लिखितम् । एतेनाष्यष्टमदशमशतकयोमध्ये तेषां स्थि. तिरवगम्यते। 1. See page 303. The History of Indian Logic. 2. See page 734 Classical Sanskrit Literature by M. Krishnamachariar.