पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
प्रथमोद्योतः


बालप्रिया

नामिति नञ्समासघटक प्रगीतपदं व्याचष्टे-प्रकृष्टमित्यादि । पक्षान्तरमाह-


कनाडीभेदवशात् द्वाविंशतिप्रकारो भवति । इम एव भेदाः श्रुतय इति व्यपदिश्यन्ते । श्रवणार्थस्य धातोः क्तिन् प्रत्यये श्रूयन्त इति व्युत्पत्त्या श्रुतिशब्दो निष्पन्नः । अत्र नादापरपर्यायश्रुतिविभागविषये बहवः प्रकारा वर्तन्ते-केचन द्वाविंशतिं श्रुतीर्मन्यन्ते, अपरे च षट्षष्टिभेदभिन्नाः श्रुतय इत्याचक्षते, अन्ये पुनरानन्त्यं कथयन्ति श्रुती- नाम् । अत एवोक्तं कोहलेन-

द्वाविंशति केचिदुदाहरन्ति श्रुतीः श्रुतिश्मनविचारदक्षाः ।
षट्षष्ठिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ॥ इति ॥

 तत्र द्वाविंशतिपक्ष एव प्रकृते ग्रन्थकाराभिमतः । एतासां श्रुतीनां मिथो भेदः- वीणादण्डे पूर्वोत्तरभावेन द्वाविंशतिं तन्त्रीः परिकल्प्य प्रथमापेक्षया द्वितीयादितन्त्रीषु किञ्चित्किञ्चिदृढीकरणपूर्वकं वाद्यमानासु तासु प्रत्यक्षतोऽवगन्तुं शक्यः ।

 आभ्यश्च श्रुतिभ्यः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाख्याः सप्त स्वरा भवन्ति । स्वतः सहकारिकारणनिरपेक्षं रञ्जयति श्रोतृचित्तमनुरक्तं करोतीति स्वरः, इति तद्व्युत्पत्तिः । सप्तानामप्यमीषां स्वराणां व्यस्तानां सतां दृष्टादृष्टफलौपयिकत्वं न भवतीति तत्सिद्धये ग्रामस्यावश्यकता जायते । ग्रामो नाम स्वरसमूहः । एताव- त्युच्यमाने लौकिकवैदिकवाक्येष्वपि स्वरसमूहस्य सम्भवात्तत्रातिव्याप्तिस्स्यादिति तव्द्यावृत्तये मूर्च्छनाक्रमतानवर्णालङ्कारजात्याद्याश्रयत्वे सति स्वरसमूहत्वं ग्रामत्वमिति लक्षणं वक्तव्यम् । मूर्च्छनादीनां स्वरूपविभागादयः सङ्गीतरत्नाकरस्य स्वराध्यायतोऽव- सेयाः । स चायं ग्रामो द्विविधः-षड्जग्रामः, मध्यमग्रामश्चेति । तत्रैकस्मिन् वीणादण्डे द्वाविंशति तन्त्रीः परिकल्प्य आदितस्तुरीयायां तन्त्र्यां षड्जस्वरः, सप्तम्यां ऋषभः, नवम्यां गान्धारः, त्रयोदश्यां मध्यमः, सप्तदश्यां पञ्चमः, विश्यां धैवतः, द्वाविंश्यां निषादश्चेति स्वरेषु विन्यस्तेषु षङ्जनामो भवति । अयमेव शुद्धाश्रयः षड्जनाम इति व्यवह्रियते । एवमपरस्मिन् वीणादण्डे आदितस्तुरीयायां तन्त्र्यां मध्यमः, सप्तम्यां पञ्चमः, एकादश्यां धैवतः, त्रयोदश्यां निषादः, सप्तदश्यां षड्जः, विश्यामृ- षभः, द्वाविंश्यां गान्धारश्चेति विन्यस्तेषु स्वरेषु मध्यमस्रामो भवति । अयमेव विकृ- ताश्रयो मध्यमग्राम इति व्यपदिश्यते । एवञ्च षड्जग्रामे-षड्जमध्यमपञ्चमाः चत. सृभ्यः श्रुतिभ्य उत्पन्नाः, ऋषभधैवतौ तिसृभ्य उत्पन्नौ, गान्धारनिषादौ द्वाभ्यामु- त्पन्नौ ; मध्यमग्रामे च मध्यमधैवतषड्जाः चतसृभ्य उत्पन्नाः, पञ्चमर्षभौ तिसृभ्य उत्पन्नौ, निषादगन्धारौ द्वाभ्यामुत्पन्नाविति द्वैग्रामिक्यो द्वाविंश्यः श्रुतयः स्वरतदन्तरा- लोभयभेदकल्पिताः सिद्धाः ।

 तत्र षड्जग्राममध्यमग्रामयोर्मिलित्वा सन्त्यष्टादश जातयः-पाजी, आर्षमी, गान्धारी, मध्यमा, पञ्चमी, धैवती, नैषादी, षड्जकैशिकी, षड्जोदीच्यवा, षड्ज.