पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
सटीकलोचनोपेतध्वन्यालोके


एवं वाच्यव्यतिरेकिणो व्यङ्गयस्य सद्भाव प्रतिपाद्य प्राधान्यं तस्यै-


लोचनम्

मार्गा गृह्यन्ते । प्रकृष्ट गीतं गानं येषां ते प्रगीताः, गातुं वा प्रारब्धा इत्यादिकर्मणि तः । प्रारम्भेण चात्र फलपर्यन्तता लक्ष्यते ॥ ७ ॥

 एवमिति । स्वरूपभेदेन भिन्नसामग्रीज्ञेयत्वेन चेत्यर्थः ।

बालप्रिया

गातुं वेति । श्रादिकर्मणीति । प्रारम्भरूपार्थ इत्यर्थः । फलेति । फलमत्र स्वरा दिसाक्षात्कारः ॥ ७ ॥

 एवमित्यनेन सन्निहितमात्रपरामर्शभ्रमः स्यादतो व्याचष्टे-स्वरूपभेदेनेत्या मध्यमा, गान्धारोदीच्यवा, रक्तगान्धारी, कैशिकी, मध्यमोदीच्यवा, कार्मारवी, गान्धा- रपञ्चमी, आन्ध्री, नन्दयन्ती इति । तत्रादितरसप्त शुद्धजातयः षड्जग्रामस्य, अव- शिष्टाश्च मध्यमग्रामस्येति विवेकः ।

 अत्र सर्वासामपि जातीनामंशा बहवो भवन्ति । 'सरि ग म प ध नि' इति स्वरविशेषाणामेव अंश इति संशा । काश्चन जातय एकांशाः, ( अर्थात् एकः खरः अंशो यांसां ताः), अपराश्च दचंशाः, अन्याश्च त्र्यंशा इत्येवमादिविभागो भरत नाट्यशास्त्रादौ दर्शितः।

 सुखेन तदवगमायाधः पट्टिका प्रदर्यते- जातिनामानि अंशाः जातिनामानि १ पाजी सगमपध १० षड्जमध्यमा रिधनि ११ गान्धारोदीच्यवा सगमपनि १२ रक्तगान्धारी ४ मध्यमा सरिमपथ रिप १४ मध्यमोदीच्यवा रिध १५ कार्मारवो सगनि १६ गान्धारपञ्चमी सगप १७ आन्ध्रो समधनि १८ नन्दयन्ती अंशाः २ आर्षभी सरिगमपधनि ३ गान्धारी सम सगमपनि ५पञ्चमी १३ कैशिकी सगमपधनि ६ धैवती प ७ नैषादी रिपधनि ८ षड्जकैशिकी प ९ षड्जोदीच्यवा रिंगपनि प तनाव्यशास्त्रस्याटांविशेऽध्याये निरूपित, तत एवावगन्तव्यम् ।

 एवं द्वैग्रामिकीनां सर्वासामपि जातीनां त्रिषष्टिरंशा विज्ञेयाः । एतेषां स्वरूपं भर- रभाषाः देशीमार्गादयः । तेषां स्वरूपं सङ्गीतरत्नाकरस्य रागविवेकाध्यायतोऽवगन्त-' व्यम् , विस्तरभिया नेह प्रदर्यत इति ।

१. “आदिकर्मणि क्तः कर्तरि चे”( पा.सू., ३.४.७१. )ति सूत्रेणेत्यर्थः । स्वरगतप्रतिपादितजातिजन्यत्वेन प्रसक्ता प्रामरागाः, भाषाः, विभाषाः, आन्त