पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
सटीकलोचनोपेतध्वन्यालोके


एवासावर्थः स्यात्तद्वाच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्त्वार्थभावनाविमुखाना स्व. रश्रुत्यादिलक्षणमिवाऽप्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः ।


लोचनम्

इति । न तु न वेद्यते, येन न स्यादसाविति भावः । काव्यस्य तत्त्वभूतो योऽर्थस्तस्य भावना वाच्यातिरेकेणानवरतचर्वणा तत्र विमुखानाम् । स्वराः षड्जादयः सप्त । श्रुतिर्नाम शब्दस्य वैलक्षण्यमात्रकारि यद्रूपान्तरं तत्परिमाणा स्वरतदन्तरालोभयभेद. कल्पिता द्वाविशतिविधा । आदिशब्देन जात्यं शकग्रामरागभाषाविभाषान्तरभाषादेशी

बालप्रिया

नाधिकारिभेदप्रदर्शनपरा, किन्तु सामग्रीभेदप्रदर्शनपरा। वाच्यार्थबोधेऽनुशिष्टशब्दा- र्थज्ञानरूपा, न्यंग्यार्थवोधे तु सहृदयत्वादिरूपा च सामग्री पूर्वोत्तरार्धाभ्यां दर्शिता चेति भावः । वेदने सिद्धे तत्सामग्रीचिन्तावकाश इत्याशयेन पुनरपि वेद्यत इत्यु- क्तम् , तद्व्याचष्टे न स्वित्यादि । येन अवेदनेन । असौ प्रतीयमानार्थः । वृत्ती 'सोऽर्थ' इत्याद्युत्तरार्धस्य विवरणं 'तस्मादिति पूर्वार्धेन सम्बन्धः । तद्विवरणं यदि चेत्यादि । 'असौ अर्थः प्रतीयमानार्थः । 'तत्प्रतीतिः प्रतीयमानार्थप्रतीतिः। इष्टापत्ति परिहरति--'अथ चेत्यादि । अथ चासावर्थः काव्यतत्त्वार्थभावनावि. मुखानां वाच्यवाचकलक्षणमात्रकृतश्रमाणामगोचर' इति सम्बन्धः ।तत्र दृष्टा- न्तः–'अप्रगीतानां गन्धर्वलक्षणविदां स्वरश्रुत्यादिलक्षणमिवेति । 'अगोचरः' अग्रा. ह्यः । 'गान्धर्वलक्षणविदां ग्रन्थपठनेन सङ्गीतलक्षणं जानताम् । कारिकायां ‘स ही' त्यत्र स त्विति च पाठः । काव्येत्यादिकं व्याचष्टे-काव्यस्येत्यादि । शब्दस्येति । गीतादिरूपशब्दस्येत्यर्थः । वैलक्षण्यमात्रकारि परस्परभेदमात्रकारि । न गुणाधा- यकमिति भावः । रूपान्तरं रूपविशेषः । गीतादिशब्दश्रवणे सति तस्य शब्दस्य यद्रूपान्तरं लवादिकालांशं निमित्तीकृत्य जायते तदित्यर्थः । तदिति । तत् परिमाणं कालप्रमाणं यस्याः सेत्यर्थः । तन्मात्रकालेति यावत् । स्वरेति । स्वरः तस्य स्वरस्या- न्तरालमुभयमर्थात्पार्श्वद्वयं च तेषां यो भेदस्तत्कल्पितेत्यर्थः । श्रुतिर्नाम स्वरस्यैवांश इति यावत् । जातीत्यादि । जात्यादीनां स्वरूपमन्यतोऽवधातव्यम् । अप्रगीता-


 १. अत्रायं विषयविवेकः-उपासनायां सत्स्वपि सगुणेषु प्रसिद्धदेवतान्तरेषु नादब्रह्मोपासनया सर्वा अपि देवता उपासिता भवन्तीति तत्र तत्र प्रतिपादितमुप- लभामहे । अत एवोक्तं सङ्गीतरत्नाकरे- नादोपासनया देवा ब्रह्मविष्णुमहेश्वरा । भवन्त्युपासिता नूनं यस्मादेते तदात्मकाः॥ इति ।

 ( सं. र., P. 31 edn, Anandasrama Press, Poona.)

तत्र प्राणाग्निसंयोगादभिव्यक्तो ध्वनिर्नाद इत्यभिधीयते । स च नादोऽभिव्यन्ज- तत्र दृष्टा-