पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
प्रथमोद्योतः


प्रतिभाविशेष परिस्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावा- हिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते ।

इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्-
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ ७ ॥
सोऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते । यदि च वाच्यरूप


लोचनम्

र्माणक्षमत्वम् । यदाह मुनिः-'कवेरन्तर्गतं भावं' इति । येनेति । अभिव्यक्तेन स्फुरता प्रतिभाविशेषेण निमित्तेन महाकवित्वगणनेति यावत् ॥ ६॥।

 इदं चेति । न केवलं 'प्रतीयमानं पुनरन्यदेव' इत्येतत्कारिकासूचितौ स्वरूपवि. षय भेदावेव; यावद्भिन्नसामग्रीवेद्यत्वमपि वाच्यातिरिक्तत्वे प्रमाणमिति यावत् । वेद्यत

बालप्रिया

रसावेशस्य कारणभूतं यद्वैशद्यं रसावेशानभिमुखत्वराहित्यं तेन यत्सौन्दर्यं रसपरत्वादिलक्षणम् । यद्वा-रसावेशेन यद्वैशद्यं “विवक्षातत्परत्वेने त्यादिसूचि. तदोषराहित्य, तेन सौन्दर्यं तत्सूचितगुणसाहित्यं तद्रूपं काव्यनिर्माणक्षमत्वमित्यर्थः । सरस्वतीप्रतिभाविशेष प्रतिपत्तॄणामभिव्यनक्त त्यत्र संवादमाह-यदाहेति । 'येने. त्यादिवृत्तिग्रन्थं व्याचष्टे-अभिव्यक्तेनेत्यादि । अभिव्यक्तेन अतएव स्फुरता प्रतिपत्तॄणां प्रत्यक्षविषयेण। 'निमित्तेने त्यन्तं 'येने त्यस्य व्याख्यानम्। महाकवित्व- गणनेति । प्रतिपत्तॄणामादौ रसस्यानुभवस्ततः प्रतिभायास्ततो महाकवित्वगणनेति भावः ॥६॥

 'न केवलमित्यादि 'वेद्यत्वमपी' त्यन्तं 'इदच्चापरमित्यस्य विवरणम् । सद्भा- वेत्यादेवाच्यातिरिक्तत्वेन सद्भावस्येत्याद्यर्थ इत्याह-वाच्येत्यादि । तथा च कारिका


१. विभावेनाहृतो योऽर्थस्त्वनुभावेन गम्यते ।
वागङ्गसत्वाभिनयैस्स भाव इति संज्ञितः ॥
वागङ्गमुखरागैश्च सत्वेनाभिनयेन च ।
कवेरन्तर्गतं भाव भावयन् भाव उच्यते ॥
भरतना., P. 79 edn, Chowkhamba, Benares.

 २. प्रमाणमिति । अनुमितिकारणमित्यर्थः । इदमाचार्यमतानुसारेण । हेतुज्ञानस्य तत्कारणत्वमते तु प्रमाणमित्यस्य प्रमितिकारणतानिरूपितविषयित्वसम्बन्धावच्छिन्नाव- च्छेदकतावदित्यर्थः । विमतं प्रतीयमानं वाच्यव्यतिरिक्त, वाच्यवेदकसामग्रीविभिन्न- सामग्रीप्रयोज्यवित्तिविषयत्वात् , लक्ष्यार्थवत् इत्यत्रानुमानाकारो बोध्यः ।