पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

तेन नास्य समः स स्याद्दुह्यते योगिभिर्हि यः ॥
तदावेशेन विनाप्याक्रान्त्या हि यो योगिभिर्दुह्यते । अत एव-

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥

 इत्यनेन साराग्रयवस्तुपात्रत्वं हिमवत उक्तम् । 'अभिव्यनक्ति परिस्फुरन्तमिति । प्रतिपत्तृृृृृन प्रति सा प्रतिभा नानुमीयमाना, अपि तु तदावेशेन भासमानेत्यर्थः । यदुक्तमस्मदुपाध्यायभट्टतौतेन–'नायकस्य कवेः श्रोतुः समानोऽनुभवस्ततः' इति । 'प्रतिभा' अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा ; तस्या 'विशेषो' रसीवेशवैशद्यसौन्दर्यं काव्यनि-

बालप्रिया

सहृदयवत्से स्नेहेन हेतुना । हि दुग्धे प्रस्नौति यत् , तेन तस्माद्धेतोः सः अस्य बालतृष्णया प्रस्तुतस्य रसस्य, समः न स्यात् यः आनन्द- रसः । योगिभिर्हिं दुह्यत इत्यर्थः । असमत्वं स्फुटयितुं तुरीयपादार्थमाह- तदावेशेनेत्यादि । तदावेशेन रसावेशेन । अपिरेवार्थे । आक्रान्त्या बला- त्कारेण आनन्दरूपेश्वरतन्मयीभावभावनाप्रकर्षसम्पादनेनेति यावत् । वाग्धेनोस्तु बालतृष्णया तदावेशवशात्तद्दोग्धृतेति भावः। आक्रान्तिदुग्धात्स्वयं प्रस्नुतस्य साति- शयत्वे प्रमाणमाह-अत एवेत्यादि । अत एव यतो रसपरिपूर्णायास्तदावेशपर- वशाया धेनोः प्रस्तवनं प्रति स्वयं कर्तृत्व, तत एव । हिमवतः वत्सरूपस्येति यावत् । अत एव इत्यनेन हिमवतः साराग्यूपात्रत्वमुक्तमिति सम्बन्धः । सरस्वती- प्रतिभाविशेषमभिव्यनक्त्यनुमापयतीत्यर्थभ्रमं निवर्तयन् व्याचष्टे-प्रतिपत्तृनित्यादि । अभिव्यनक्तीत्यत्र प्रतिपत्तॄन् प्रतीति पूरणीयम् । प्रतिपत्तृणामित्यर्थः । सा प्रतिभा महाकविसम्बन्धिनी प्रतिभा । नानुमीयमानेति । तथाविधसरस्वतीलिङ्गकानुमिति- विषयो नेत्यर्थः । तदिति । प्रतिभाविषयभूतरसावेशेनेत्यर्थः । भासमानेति । प्रत्यक्ष- विषयभूतेत्यर्थः । तथाविधा सरस्वती महाकवीनां तथाविधं प्रतिभाविशेषं स्फुरणवि- शिष्टमभिव्यनक्ति-रसावेशानभिमुखत्वरूपावरणनिवर्तनात्मकाभिव्यञ्जनेन प्रतिपत्तॄणां प्रत्यक्षविषयं करोतीति कारिकार्थ इति भावः । कविगतस्य रसस्य कथं प्रतिपत्तुगतत्व. मित्यत आह- -यदुक्तमित्यादि । नायकस्येति । नायकस्य कविसमारोपाच्छ्रोतुस्तु रसचर्वणयेति भावः। प्रतिभाविशेषमित्येतव्याचष्टे-प्रतिभेत्यादि । प्रज्ञा बुद्धिः। रसेति।


 १. रसानां शृङ्गारादीनां भग्नावरणचिद्विषयीकृतानां रत्यादीनां य आवेशः सा- क्षात्कारः, तत्सम्बन्धि तदुपयोगि यद्वैशा नैर्मल्यं, दोषरहितत्वे सति प्रसादमाधुर्या- दिगुणवत्त्वं, तेन सौन्दर्यम् उपादेयत्वं यस्य तथाविधं यत्काव्यं, तन्निर्माणक्षमत्वमि- त्यर्थः । एतेन 'रसावेशवेशद्यसौन्दर्यकाव्यनिर्माणक्षमत्वमिति समस्तोऽपि पाठस्सा- धीयानेवेति वेद्यम् ।