पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
प्रथमोद्योतः


सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥६॥

 तत् वस्तुतत्त्वं निःष्यन्दमाना महता कवीनां भारती अलोकसामान्यं


लोचनम्

 एवमितिहासमुखेन प्रतीयमानस्य काव्यत्मतां प्रदर्श्य स्वसंवित्सिद्धमप्येतदिति दर्शयति-सरस्वतीति । वाग्रूपा भगवतीत्यर्थः । वस्तुशब्देनार्थशब्दं तत्वश- ब्देन च वस्तुशब्दं व्याचष्टे-निःष्यन्दमानेति । दिव्यमानन्दरसं स्वयमेव प्रस्नु- वानेत्यर्थः । यदाह भट्टनायकः-

वाग्धेनुर्दुग्ध एतं हि रसं यद्बालतृष्णया ।।

बालप्रिया

 अथेदमालोचनीयं सहृदयैः-श्रीवाल्मीकिना "मा निषादे"त्यादिश्लोकेन श्लोका- न्तरैश्च सहचरस्य पुंस एव क्रौञ्चस्य निहननं निर्दिष्टम् , अत्र तु 'निहते त्यादियथा- श्रुतग्रन्थेन वृत्तिकृता, 'सहचरीहननोद्भूतेने ति 'निहतसहचरीति विभाव उक्त' इति च व्याख्यानेन लोचनकृता, 'निषादनिहतसहचरीकं क्रौञ्चयुवानमित्यादिवचनेन काव्यमी- मांसाकारेण च सहचरीहननं प्रतिपादितमित्येतेषां ग्रन्थकृतां रामायणवचनविरुद्धार्थप्र. तिपादने निमित्तं किमिति । अत्र केचित्–'निहते त्यादिवृत्तिग्रन्थस्य 'निहतः सहचरी- विरहकातरः स्वत एव सहचरीविरहासहिष्णुश्च यः क्रौच्चस्तदुद्देश्यको य आक्रन्दस्तज्ज. नित' इत्यर्थः । लोचने 'सहचरोहनने त्यत्र ‘सहचरे'ति पाठेन भाव्यम् । 'निहतसह- चरीति विभाव उक्त' इत्यस्य “निहतसहचरी'त्यादिग्रन्थेन विभावः प्रदर्शित इत्य- र्थश्चेति न रामायणवचनविरोधः । काव्यमीमांसाकृद्वचनं च यथाश्रुतवृत्तिग्रन्थार्थावबोध- मूलकमश्रद्धेयमेवेति वदन्ति ॥ ५ ॥

 एवमित्यादि । स्वसंवित्सिद्धं सहृदयानुभवसिद्धम् । एतदिति । प्रतीयमा. नस्य काव्यात्मत्वमित्यर्थः । दर्शयतीति । पूर्वकारिकयेतिहासः प्रतीयमानस्य काव्या. त्मत्वे प्रमाणमित्युक्तम् , अनया तु तत्स्थिरीकरणाय स्वसंवेदनलक्षणं प्रमाणमुच्यते । स्वसंवेदने हि न कस्यापि विमतिरित्यर्थः । सरस्वतीति । 'सरस्वती'त्यादिश्लोकेने- त्यर्थः । सरस्वतीपदं व्याचष्टे-वाग्रूपा भगवतीति। तदित्यस्य पूर्वोक्तमित्यर्थः । 'वस्तुतत्वमिति “अर्थवस्तु” इत्यस्य व्यख्यानमित्याह-वस्तुशब्देनेत्यादि । अर्थेषु वस्त्वलङ्काररसेषु । वस्तु सारभूतमर्थवस्तु । 'तदर्थवस्त्वित्यस्य फलितमर्थं कर्म कृत्वा निःष्यन्दमाने'त्येतव्याचष्टे-दिव्यमित्यादि । दिव्यं अलौकिकम् । स्वय- मेवेति सदाऽभिमुख्यं सूचयति । प्रस्नुवाना क्षारयन्ती । अनेन सरस्वत्या धेनुसाम्यं सूच्यते । उक्तव्याख्याने प्रमाणमाह-यदाहेति ।

 वागिति । वाक् काव्यरूपा सैव धेनुः । एतं दिव्यं रसम्। बालतृष्णया