पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
सटीकलोचनोपेतध्वन्यालोके


रसभावमुखेनैवोपलक्षणं प्राधान्यात् ।


लोचनम्

संस्कारक्रमेण हृदयसंवादमादधानं चर्वणायामुपयुज्यते यतः। ननु प्रतीयमानरूपमात्मा तत्र त्रिभेदं प्रतिपादितं न तु रसैकरूपम् , अनेन चेतिहासेन रसस्यैवात्मभूतत्वमुक्तं भवतीत्याशङ्कयाभ्युपगमेनैवोत्तरमाह-प्रतीयमानस्य चेति। अन्यो भेदो वस्त्व- लङ्कारात्मा । भावग्रहणेन व्यभिचारिणोऽपि चर्व्यमाणस्य तावन्मात्राविश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्टामनवाप्यापि प्राणत्वं भवतीत्युक्तम् । यथा-

नखं नखाग्रेण विघट्टयन्ती विवर्तयन्ती वलयं विलोलम् ।
आमन्द्रमाशिञ्जितनू पुरेण पादेन मन्दं भुवमालिखन्ती ॥

 इत्यत्र लज्जायाः। रसभावशब्देन च तदाभासतत्प्रशमावपि संगृहीतावेव ; अवान्तरवैचित्र्येऽपि तदेकरूपत्वात् । प्राधान्यादिति । रसपर्यवसानादित्यर्थः । तावन्मात्राविश्रान्तावपि चान्यशाब्दवैलक्षण्य कारित्वेन वस्त्वलङ्कारध्वनेरपि जीवितत्व मौचित्यादुक्तमिति भावः ॥ ५॥

बालप्रिया

ति सम्बन्धः । प्रतीयमानरूपमात्मेति । “काव्यस्यात्मा ध्वनिरिति प्रतीयमान- सामान्यस्यात्मत्वाभिधानादिति भावः । वृत्तौ 'रसेत्यादि । रसमुखेनैव भावमुखेनैव चेत्यर्थः । 'उपलक्षणमिति । प्रतीयमानस्येत्यनुषज्यते । केनापि सम्बन्धेनान्योन्यस- म्बन्धिषु प्रधानस्य यदन्यज्ञापनं तदुपलक्षणं; यथा राजाऽसौ गच्छतीत्यत्र राजा परि- वारस्योपलक्षकः । अत्र भावग्रहणस्य फलमाह-भावेत्यादि । 'भावग्रहणेन इत्युक्त- मिति सम्बन्धः । तावदिति । तावन्मात्रे स्वरूपमात्रे । अविश्रान्तिः विश्रान्त्य- भावस्तस्यामपीत्यर्थः । अपिशब्देनामुख्यत्वं सूचितम् । तर्हि रसप्रतिष्ठया भाव्यमि- त्यत आह-स्थायीत्यादि । स्थायि चर्वणायां यत्पर्यवसानं तत्पूर्णताकरणलक्षणं तदेव उचितरसप्रतिष्ठा तामप्राप्यापीत्यर्थः । प्राणत्वं काव्य जीवितत्वम् । भवतीति । तच्चर्वणयैव चमत्कारोदयादिति भावः ।

 नखमिति । अत्र वलयविवर्तनोक्त्या प्रियतमादर्शनजनितं कार्य व्यज्यते । अत्रोक्तैर्नखविघटनादिभिरनुभावैर्गम्येन प्रियतमवार्ताश्रवणादिना विभावेन चाभिव्यज्य- मानाया लज्जायाः शृङ्गारनिष्ठामनवाप्य चर्वणागोचरीभवत्याः प्राणत्वमित्याह-अत्र लज्जाया इति । प्राणत्वमित्यनुषङ्गः । रसेत्यादि । रसशब्देन रसाभासस्य,भाव- शब्देन भावाभासतत्प्रशमयोश्च ग्रहणमित्यर्थः । वृत्तौ 'प्राधान्यादि'त्यस्य रसस्य प्रा- धान्यादित्यर्थः । तत्र हेतुमाह-रसपर्यवसानादिति । अन्येषामिति शेषः । प्रसङ्गादाह-तावदित्यादि । तावन्मात्राविश्रान्तौ वस्त्वलङ्कारस्वरूपमात्रे विश्रा- न्त्यभावे । अपि चेति निपातोऽपोत्यर्थे । 'अन्यशाब्दवैलक्षण्य कारित्वेनौचित्यादि'ति सम्बन्धः।