पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
प्रथमोद्योतः


शोको हि करुणस्थायिभावः । प्रतीयमानस्य चान्यभेददर्शनेऽपि


लोचनम्

जनित इति । चर्वणागोचरत्वेनेति शेषः ।

 ननु शोकचर्वणातो यदि श्लोक उद्भूतस्तत्प्रतीयमानं वस्तु काव्यस्यात्मेति कुत इत्याशङ्कयाह-शोको हीति । करुणस्य तच्चर्वणागोचरात्मनः स्थायिभावः । शोके हि स्थायिभावे ये विभावानुभावास्तत्समुचिता चित्तवृत्तिश्चय॑माणात्मा रस इत्यौचि- त्यात्स्थायिनो रसतापत्तिरित्युच्यते । प्राक्स्वसंविदितं परत्रानुमितं च चित्तवृत्तिजातं

बालप्रिया

पूर्वं तन्निषेध इत्यतो व्याचष्टे-चर्वणेत्यादि । तदाक्रन्देन जनितश्चर्वणागोचरीकृत इत्यर्थः । शोक इत्यस्य वासनारूपेण स्थितो मुनेः शोक इत्यर्थश्चेति भावः ।

 ननु 'शोको हीत्यादिग्रन्थेन शोकस्य करुणरसस्थायित्वानुवादोऽत्र निरर्थक इत्य- तस्तद्ग्रन्थमवतारयति–नन्वित्यादि। तदिति। तहीत्यर्थः। प्रतीयमानं वस्त्वि- ति । रस इत्यर्थः । प्रकृताविस्मरणार्थमेवमुक्तम् । समाधानसिद्ध्यनुगुणं व्याचष्टे- करुणस्येत्यादि । तञ्चर्वणेति । शोकचर्वणेत्यर्थः। 'शोकः श्लोकत्वमागतः' इति शोकचर्वणातः श्लोकोत्पत्तिवचनेनैव रसस्यात्मत्वं प्रकाशितमेव शोकचर्वणागोचरात्मत्वा- त्करुणरसस्येति भावः। ननु कथमन्यचर्वणाया अन्यो विषयः स्यादित्यत उपपादयति- शोके हीत्यादि । शोके स्थायिभावे क्रौञ्चादिवर्ण्यमानगते शोकादौ स्थायिभावे । निमित्ते सप्तमी। ये विभावानुभावा इति । शोकादेर्निमित्तभूता ये विभावाः कार्यभूता ये अनुभवाश्चेत्यर्थः । तत्समुचिता चर्व्य॑माणानां तेषां विभावानुभावानां समुचिताः। वर्ण्यमानतत्तद्गतस्थायिसजातीयेति यावत् । चित्तवृत्तिा चर्वयितरि वासनारूपेण स्थिता शोकादिचित्तवृत्तिः । चर्व्य॑माणात्मा रस्यमानात्मा । रसः रसपदार्थः । औचित्यादिति । उपयोगित्वनिबन्धनादुपचारादित्यर्थः, न मुख्यत्वे- नेति भावः। रसतापत्तिः रसत्वप्राप्तिः। उच्यते "स्थायिभावो रस" इत्या- दिना उच्यते । उपयोगित्वं दर्शयति-प्रागित्यादि । सहृदयेनेति शेषः । स्वसंवि- दितं स्वस्मिन्ननुभूतम् । परत्र क्रौञ्चादौ । अनुमितमाक्रन्दनादिनेत्यर्थात् । चित्तवृत्तीति । स्थायीत्यर्थः । संस्कारेत्यादि । स्वानुभवसंस्कारं स्वानुमानसंस्कारं चाधाय ताभ्यां हृदय संवादमादधानं सदित्यर्थः । 'यत उपयुज्यते तत औचित्यादि-


स्मिन् महाकाव्ये स्वत एवालौकिकसीतारामादिविभावघटितसंविधानमाहात्म्यातिश- यादभिव्यज्यमानः करुणरसप्रवाहः सहृदयहृदयैस्समास्वाद्यमानसारः प्रधानभाव. मासादयतीति व्यङ्ग्यपक्षपातिनो ध्वन्यालोकलोचनग्रन्था एतस्मिन्नेवार्थे तात्पर्यनि- र्भरमादधानास्समीचीनमुपपद्यन्त इति ।

 १. अन्यभेदेत्येव पाठस्साधीयान् , 'अन्यो भेदो वस्त्वलङ्कारात्मेति लोचनोक्तेः ।

          १२