पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
सटीकलोचनोपेतध्वन्यालोके


तथा चादिकवेर्वाल्मीकेः निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।


लोचनम्

वाच्ये वाचके रचनायां च प्रपञ्चेन यच्चारु शब्दार्थालङ्कार गुणयुक्तमित्यर्थः । तेन सर्व- त्रापि ध्वननसद्भावेऽपि न तथा व्यवहारः । आत्मसद्भावेऽपि क्वचिदेव जीवव्यवहार इत्युक्तं प्रागेव । तेनैतन्निरवकाशम् ; यदुक्तं हृदयदर्पणे- 'सर्वत्र तर्हि काव्यव्यवहारः स्यात्' इति । निहतसहचरीति विभाव उक्तः । आक्रन्दितशब्देनानुभावः ।

बालप्रिया

वाच्यादीति शेषः । कृत्वेत्यस्य प्रपञ्चेनेत्यनेन, वाच्य इत्यादिवयस्य चार्वित्यनेन च सम्ब- न्धः । प्रपञ्चेन प्रपञ्चनेन । चारु सुन्दरम् । अनेन विवक्षितमाह-शब्देत्यादि । तेनेति । विविधेत्यायुक्तस्य काव्यत्वेनेत्यर्थः । सर्वत्रापि सिंहो देवदत्त इत्यादावपि । तथा व्यवहारः काव्यव्यवहारः । 'इति यदुक्तमेतन्निरवकाशमिति सम्बन्धः । विभाव इति । ध्वस्तसाहचर्यः क्रौञ्च आलम्बनविभावः, निहननमुद्दीपनविभावः। ननु निहतेत्यादियथाश्रुतग्रन्थेन तदाक्रन्दजनितो मुनेश्शोक इत्यर्थ इव प्रतीयते । तत्कथं


 १. 'निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः इति । अत्र केचित् “मा निषा देति वाल्मीकीयपद्येन सहचरहननस्यैव प्रतिपादनात् "निहतसहचरविरहकातरक्रो- ञ्च्याक्रन्दजनित” इति मूलं परिवर्त्य तथैव व्याचक्षते । तथैव च लोचनग्रन्थमपि वहुत्र परिवर्तयन्ति । अन्ये पुनः मूलमपरिवर्त्त्यापि ‘मा निषादेति प्रसिद्धार्थानुरोधेन क्लिष्टं विगृह्य व्याकुर्वन्ति । विदुषान्त्वेवं परामर्शः-ध्वन्यालोकस्य सर्वेष्वेव पुस्त- कभेदेषु “निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः" इत्येव पाठस्समुपलभ्यते । लोचनेऽपि “सहचरीहननोद्भूतेन” “निहतसहचरीति विभाव उक्तः" इत्येवं प्रभृतयो मूलसंवादिन एव पाठा विलोक्यन्ते । सर्व एवायं पाठभेदो लेखकप्रमादान्मुद्रणदोषाद्वा समागत इति सम्भावयितुमपि दुश्शकम् । उपपत्तिरप्यत्र जागर्ति-ध्वनि निरूपयितुं प्रवृत्तोऽयं ग्रन्थः ध्वन्यमान एवार्थे श्रद्धत्ते । 'मा निषादेत्यादिपद्यस्य च शक्त्या प्रतिपाद्यमानः क्रौञ्चहननाद्यात्मक एवार्थः । तथापि व्यञ्जनयात्र कश्चनापरोऽप्यर्थ- स्सूच्यते । तथाहि-राज्यक्षयविपिनवासादिदुःखेनाल्पीभावं कार्श्यं गतयोस्सीताराम- योर्मिथुनात् समुदायात् एकं सीतारूपमवयवं यत्त्वमवधीः वधादप्यधिकपीडां प्रापि- तवानसि; तस्मात् हे निषाद सदेवर्षिगणत्रैलोक्यपीडक रावण ! प्रतिष्टां लङ्कापुराधि- ष्ठानादिरूपां ब्रह्मवरादवाप्तां मा गम इति प्रकृतकाव्यार्थरूपो लोकोत्तरचमत्कारकारी करुणरसानुकूलः व्यक्तं विचारयतां मनस्यवतरति । अत एव रामायणटीकाकृतः श्रीगोविन्दराजकतककृद्रामायणशिरोमणिकारादयः प्राचीनास्सहृदयशिरोमणयस्सबहु- मानमेनमर्थ व्याचक्षाणा विलोक्यन्ते । करुणरसनिधानीभूते कविकुलकोपजीव्य एत-