विविधवाच्यवाचकरचनाप्रपञ्चचारुणः काव्यस्य स एवार्थः सारभूतः।
लोचनम्
णोचितशोकस्थायिभावात्मककरुणरसमुच्चलनस्वभावत्वात्स एव काव्यस्यात्मा सार- भूतस्वभावोऽपरशाब्दवैलक्षण्यकारकः ।
एतदेवोक्तं हृदयदर्पणे–'यावत्पूर्णो न चैतेन तावन्नैव वमत्यमुम्' इति । अगम इति च्छान्दसेनाडागमेन । स एवेत्येवकारेणेदमाह-नान्य आत्मेति । तेन यदाह भट्टनायकः-
शब्द प्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । |
इति तदपास्तम् । व्यापारो हि यदि ध्वननात्मा रसनास्वभावस्तन्नापूर्वमुक्तम् । अथाभिधैव व्यापारस्तथाप्यस्याः प्राधान्यं नेत्यावेदितं प्राक् |
श्लोकं व्याचष्टे-विविधेति । विविधं तत्तदभिव्यञ्जनीयरसानुगुण्येन विचित्रं कृत्वा
बालप्रिया
समुच्चलनं बहिः प्रसरणं स्वभावः स्वरूपं यस्य ‘मा निषादेत्यादिश्लोकस्य तस्य भाव- स्तत्वं तस्मात् । स एव करुणरस एव । काव्यस्यात्मेति । यतो 'मा निषादेत्या- दिकाव्यं करुणरससमुच्चलनस्वरूपमतः काव्यस्य रस एवात्मेति भावः। आत्मेत्यस्य व्याख्या सारभूतस्वभाव इति । तदुपपादकम्- -अपरेत्यादि ।
काव्यस्य रससमुच्चलनस्वभावत्वे भट्टनायकवचनं संवादयति-यावदिति । कविरिति शेषः । एतेन रसेन । यावन्न पूर्णः विभावादितन्मयीभवनक्रमेण, तावत् अमुं रसम् । नैव वमति बहिर्भावमापाद्य परास्वादनीयं नैव करोति । रसे. न पूर्ण एव कविः, काव्यरूपेण रसमुद्भिरतीति रसवमनरूपस्य काव्यस्य रसरूपत्वमे- वेति भावः । स्वेन विलिखिते ‘मा निषादे त्यादौ 'अगम' इत्यडागमस्य "नमाङ्योग" इति निषेधशङ्कायामुपपत्तिमाह-अगम इत्यादि । तेनेति। रसस्यात्मत्वसमर्थनेने- त्यर्थः । तदपास्तमित्यनेनास्य सम्बन्धः । शब्देति । आश्रित्येति । प्रवृत्तमिति शेषः । शास्त्रं वेदादि । अर्थतत्वेन अर्थप्राधान्येन । युक्तमितिहासादि । 'युक्ते' इति च पाठः । एतयोर्द्वयोः शब्दार्थयोः । काव्यधीः काव्यव्यवहारः । तद्वति प्रवन्ध इति शेषः। व्यापार इति । व्यापारप्राधान्य इत्यत्र व्यापारपदार्थ इत्यर्थः । अथेति शङ्कायाम् ।
विविधं वाच्यवाचकरचनासु प्रपञ्चेन चारु इति विग्रहमभिप्रेत्य व्याचष्टे-तत्तदि. त्यादि । तैस्तैर्वाच्यादिभिरभिव्यञ्जनीयो यो रसः, ते प्रत्यानुगुण्येन । विचित्रं कृत्वेति ।
१.पा. सू.,६,४,७४,