पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

स्वाद्यमानतां प्रतिपन्नः करुणरसरूपता लौकिकशोकव्यतिरिक्तां स्वचित्तद्रुतिसमास्वा- द्यसारां प्रतिपन्नो रसंपरिपूर्णकुम्भोच्चलनवच्चित्तवृत्तिनिःष्यन्दस्वभाववाग्विलापादि- वच्च समयानपेक्षत्वेऽपि चित्तवृत्तिव्यञ्जकत्वादिति नयेनाकृतकतयैवावेशवशात्समुचि- तशब्दच्छन्दोवृत्तादिनियन्त्रितश्लोकरूपतां प्राप्तः-

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ इति ।

 न तु मुनेः शोक इति मन्तव्यम् । एवं हि सति तद्दुःखेन सोऽपि दुःखित इति कृत्वा रसस्यात्मतेति निरवकाशं भवेत् । न च दुःखसन्तप्तस्यैषा दशेति । एवं चर्व-

बालप्रिया

आक्रान्दनादीत्यादिपदेनावनितलपरिलुण्ठनादिर्ग्राह्यः । करुणरसरूपताप्राप्तेः फलमाह- लौकिकेति । स्वरूपसामग्रीभेदादिति भावः । स्वसंवेदनप्रमाणसिद्धत्वमलौकिकरसस्य दर्शयितुमाह-स्वेत्यादि । स्वस्य चर्वयितुश्चित्तस्य या द्रुतिस्तन्मयीभावजनिता पु. लकादिभिर्लक्ष्यमाणा तया समास्वाद्यो मनसाऽनुभाव्यः सारः प्राणो यस्यास्ताम् । कथमात्मभूतस्य रसस्य बहिःश्लोकतया परिणाम इति शङ्कायां दृष्टान्तेनोत्तरमाह- रसेत्यादि । यथा जलपरिपूर्णमौलिस्थकुम्भोच्चलने तद्गतजलं वहिः प्रस्रवति, तथे- त्यर्थः । मूर्तत्वामूर्तत्वाभ्यां वैषम्यशङ्कायां दृष्टान्तान्तरमाह-चित्तवृत्तीत्यादि । यथा दुःखादि चित्तवृत्तिपरिणामरूपा वाङ्मया विलापादयः, आदिपदेन प्रशंसादयो ग्राह्याः, तथेत्यर्थः । चकारो विकल्पे । ननु रसस्य काव्यात्मत्वं तद्विषयत्वेनैव वक्तव्यम्। न च समयसव्यपेक्ष प्रवृत्तिकस्य शब्दस्य तद्विषयत्वं सम्भवतीत्याशङ्कामनुवदन् व्यंग्यत्वेन तद्विषयत्वं दर्शयति-समयानपेक्षत्वेऽपीत्यादि । इति नयेनेति । लोके हि विलापप्रशंसादयो वचनप्रकाराः शोकबहुमानरूपां चित्तवृत्तिं व्यञ्जयन्तीत्युक्तरीत्ये- त्यर्थः । अकृतकतयैवेति । अमुमर्थमनेन प्रकाशयामीति बुद्धिपूर्वकत्वमन्तरेणैवेत्यर्थः। तर्हि कथमित्यत आह-आवेशवशादिति । आवेशः आत्मव्याप्तिः। समुचि- तेति । समुचिता एव शब्दादयो रसादीन् व्यञ्जयन्तीति भावः । आदिकवेः श्लोकत्व- मागत इत्येवं व्याख्यायादिकवेः शोक इत्यन्वयभ्रमं निरस्यति-न त्वित्यादि । मुनिशब्देन दुःखप्रसङ्गं निरस्यति । तथाऽन्वये दोषमाह-एवमित्यादि । तद्दुः खेन ज्ञातेन क्रौञ्चदुःखेन । सोऽपि आदिकविरपि । इति कृत्वा इत्यर्थाद्धेतोः । इतीति । इति वचनमित्यर्थः। दोषान्तरमप्याह-न चेति । एषा दशेति । शापव- चनकर्तृत्वरूपा श्लोकरचनारूपा वा दशेत्यर्थः । उपसंहरति -एवमित्यादि । एवमु- तप्रकारेण चर्वणोचितः शोकस्थायिभाव एवात्मा यस्य तथा भूतो यः करुणरसस्तस्य


 १. रसो जलम् । 'शृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव नियोंसे पारदे ध्वनौ ॥ आस्वादे च रसं प्राहुः' इति कोशः ।