पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
प्रथमोद्योतः


 क्रौचद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ ५ ॥


लोचनम्

न्थार्थबलाच्च । तेन रस एव वस्तुत आत्मा, वस्त्वलङ्कारध्वनी तु सर्वथा रसं प्रति पर्यवस्येते इति वाच्यादुत्कृष्टौ तावित्यभिप्रायेण 'ध्वनिः काव्यस्यात्मेति सामान्येनोक्तम्। शोक इति । क्रौञ्चस्य द्वन्द्ववियोगेन सहचरीहननोद्भूतेन साहचर्यध्वंसनेनोत्थितो यः शोकः स्थायिभावो निरपेक्षभावत्वाद्विप्रलम्भङ्गारोचितरतिस्थायिभावादन्य एव, स एव तथाभूतविभावतदुत्थाक्रन्दाद्यनुभावचर्वणया हृदयसंवादतन्मयीभवनक्रमादा-

बालप्रिया

त्यस्यानन्तरं तच्छब्देनेति, रसध्वनिरित्यस्यानन्तरं परामृष्ट इति च शेषः । मन्त. व्यमिति । युक्त्या निश्चेतव्यमित्यर्थः । तामाह-इतिहासे त्यादि । इतिहासब. लादिति । कारिकाशेषबलादित्यर्थः । प्रक्रान्तेति । 'तृतीयस्त्वियादिना पूर्वोक्तत्यर्थः। 'प्रतीयमानस्य चेत्यादि समनन्तरवृत्तिग्रन्थस्याप्युपलक्षणमिदम् । तेनेति । यस्माद्र- स ध्वनिरेव स एवेति परामर्शनीयस्तस्मादित्यर्थः । 'तेन इत्यभिप्रायेण सामान्येनोक्त- मिति सम्बन्धः । इतिशब्दपरामृष्टमभिप्रायमाह-रस एवेत्यादि । सर्वथेति । अङ्गित्वेऽङ्गत्वे चेत्यर्थः। इतीति हेतौ । अन्यथा प्रतिपत्तिनिरासाय विवक्षितं व्याच- ष्टे--क्रौञ्चस्येत्यादि । द्वन्द्ववियोगकारणमाह-सहचरीत्यादि । द्वन्द्ववियोगेने- त्यस्य व्याख्यानम्-साहचर्यध्वंसनेनेति । उत्थितः उत्पन्नः । क्रौञ्च इति शेषः। साहचर्यध्वंसोत्थत्वेन प्राप्तं शृङ्गारस्थायित्वं प्रतिषेधति-निरपेक्षेत्यादि । अपेक्षायाः सङ्गमप्रत्याशायाः निष्क्रान्तो निरपेक्षो भावस्तत्वात् । क्रौञ्चेत्यादिकं व्या- ख्याय शोकस्य श्लोकताप्राप्तिं विवृणोति-स एवेत्यादि । क्रौञ्च जातस्य शोकस्य वासनारूपेणादिकवौ स्थितस्य शोकस्य चाभेदबुद्धिकृतमैक्यं विवक्षित्वा स एवेत्यु- क्तम् । स एवेति श्लोकरूपतां प्राप्त' इति सम्बन्धः । अत्र हेतुः-करुणरसरूपतां प्रतिपन्न इति । तत्र चास्वाद्यमानतां प्रतिपन्न इति । रत्यादिचित्तवृत्तिरास्वाद्य- माना हि शृङ्गारादिव्यपदेशगोचर इति भावः। आस्वाद्यमानताप्राप्तौ हेतुः-हृदये. त्यादि । सहृदयस्यादौ हृदयसंवादः, ततस्तन्मयीभावलाभस्तदुत्तरमास्वाद इति क्रमः । अत्रापि हेतुः--तथाभूतेत्यादि । तथाभूतो ध्वस्तसाहचर्यो विभावः क्रौञ्चरूपः ।


ध्वनिविषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितप्रकृतवक्तृसमवेततात्पीयविशेष्यतावत् , इतिहासैकवाक्यत्वात् , प्रकृतग्रन्थैकवाक्यत्वाच्चेति ।

 १. अन्य एवेति । 'मा निषादेति पद्ये शोक एव स्थायिभावो व्यङ्गयः, न तु वियोगकालावच्छिन्ना विप्रलम्भशृङ्गारव्यपदेश्या रतिः । आलम्बनविभावस्य सहचरस्य प्रध्वंसात् ( प्रध्वस्तालम्बनविभावकत्वात् ) इति भावः ।

 २. तथाभूतः ध्वस्तः, मृत इति यावत् ।