पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
सटीकलोचनोपेतध्वन्यालोके


ञ्चित् , इति तृतीयोऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितम् । त्वस्य सहेच प्रतीतिरित्यग्रे दर्शयिष्यते ।

 काव्यास्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।


लोचनम्

द्वयोरपि शब्दार्थयोर्ध्वननं व्यापारः। एवं द्वौ पक्षावुपक्रम्याद्यो दूषितः, द्वितीयस्तु कथञ्चिदूषितः कथञ्चिदङ्गीकृतः, जननानुमानव्यापाराभिप्रायेण दूषितः; ध्वननाभिप्रा- येणाङ्गीकृतः।

 यस्त्वत्रापि तात्पर्यशक्तिमेव ध्वननं मन्यते, स न वस्तुतत्त्ववेदी। विभावानु- भावप्रतिपादके हि वाक्ये तात्पर्यशक्तिर्भेदे संसर्गे वा पर्यवस्येत् ; न तु रस्यमानता- सारे रसे इत्यलं बहुना। इतिशब्दो हेत्वर्थे । 'इत्यपि हेतोस्तृतीयोऽपि प्रकारो वाच्या- द्भिन्न एवेति सम्बन्धः। सहेवेति । इवशब्देन विद्यमानोऽपि क्रमो न संलक्ष्यत इति तद्दर्शयति- -अग्र इति । द्वितीयोद्दयोते ॥ ४ ॥

 एवं 'प्रतीयमानं पुनरन्यदेव' इतीयता ध्वनिस्वरूपं व्याख्यातम् । अधुना का- व्यात्मत्वमितिहासव्याजेन च दर्शयति-काव्यास्थात्मेति । स एवेति प्रतीयमा- नमानेऽपि प्रक्रान्ते तृतीय एव रसध्वनिरिति मन्तव्यं, इतिहासवलात् प्रक्रान्तवृत्तिग्र-

बालप्रिया

साकल्यं परिपूर्णत्वमित्यर्थः । इतीति हेतौ। आद्य इति । 'स्वशब्दनिवेदितत्वेन वेति पक्ष इत्यर्थः । द्वितीय इति । 'विभावादिप्रतिपादनमुखेन वेति पक्ष इत्यर्थः ।

 रसादीनामभिधेयसामर्थ्याक्षिप्तत्वमेवेति वदतो वृत्तिकृतस्तात्पर्यशक्तिरेव ध्वनन- व्यापारोऽभिमतः, न तु तद्व्यतिरिक्तश्चतुर्थकक्ष्यानिवेशी अभिधेयान्यथाऽनुपपत्तिसहा- यार्थबोधनशक्तेरेव तात्पर्यशक्तित्वादिति कश्चिदाह, तन्मतमनूद्य दूषयति-यस्त्वि- त्यादि । भेदे संसर्गे वेति । गामानयेत्यादौ कर्मान्तरेभ्यः क्रियान्तरेभ्यश्च भेदो वा- क्यार्थः, संसर्गस्त्वार्थ इति केचित् । कर्मविशेषादेः क्रियाविशेषेण सम्बन्धरूपसंसर्गो वाक्यार्थः, भेदस्त्वार्थ इत्यपरे ॥ ४ ॥

 ननु ध्वनिस्वरूपे वाच्याद्भेदेन समर्थिते, लक्षणमनुक्त्वा तस्यात्मत्वप्रतिपादिकायाः कारिकायाः का सङ्गतिरित्यतो वृत्तानुवादपुरस्सरं तां दर्शयति-एवमित्यादिना । व्याख्यातमिति । ध्वनिस्वरूपं तस्य काव्यात्मत्वञ्चेति प्रकृतयोर्द्वयोराद्यं प्रतिपादित- मित्यर्थः । इतिहासव्याजेनेति । व्याजशब्देन ध्वनेरात्मत्वप्रतिपादन एव तात्पर्यं, नेतिहासोपक्षेप इति दर्शितम् । प्रकृतानुगुण्येन व्याचष्टे-स एवेत्यादि। स एवेती-


 १. मन्तव्यमनुमातव्यम् , 'आत्मा वा अरे द्रष्टव्यः, श्रोतव्यो, मन्तव्यो , निदि- ध्यासितव्यः' (बृहदा., २. ४. ५.) इत्युपनिषदि 'मन्तव्यश्चोपपत्तिभिरिति स्मृतौ च मननस्यानुमानत्वेन प्रसिद्धः । तदाकारश्च-'काव्यस्यात्मेति पद्यघटक तत्पदं रस-