पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
प्रथमोद्योतः


ङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्व- प्रतीतिरस्ति । यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशि. प्टेभ्यो रसादीनां प्रतीतिः । केवलाच्च स्वाभिधानादप्रतीतिः । तस्मादन्वय- व्यतिरेकाभ्यामभिधेय सामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथ-


लोचनम्

इत्यादौ । न हि यदभावेऽपि यद्भवति तत्कृतं तदिति भावः । अदर्शनमेव द्रढयति- न हीति । केवलशब्दार्थं स्फुटयति-विभावादीति । काव्य इति । तव मते काव्यरूपतया प्रसज्यमान इत्यर्थः । मनागपीति ।

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाव्ये रसाः स्मृताः ॥

 इत्यत्र । एवं स्वशब्देन सह रसादेर्व्यतिरेकान्वयाभावमुपपत्या प्रदर्श्य तथैवोप. संहरति-यतश्चेत्यादिना कथञ्चिदित्यन्तेन । अभिधेयमेव सामर्थ्यं सहकारिशक्तिरूपं विभावादिकं रसध्वनने शब्दस्य कर्तव्ये, अभिधेयस्य च पुत्रजन्महर्षभिन्नयोगक्षेम- तया जननव्यतिरिक्ते दिवाभोजनाभावविशिष्टपीनत्वानुमितरात्रिभोजनविलक्षणतया चानुमानव्यतिरिक्ते ध्वनने कर्तव्ये सामर्थ्यं शक्तिः विशिष्टसमुचितो वाचकसाकल्यमिति

बालप्रिया

इत्यस्य विवरणम् यद्विश्रम्येत्यादाविति । भावमाह-न हीति । 'तत्तत्कृतं न ही ति सम्बन्धः । ननु विभावादिप्रतिपादकत्वाभावे कथं काव्यत्वं, येन सिद्धवनिर्देश इत्या. शङ्कां परिहरन् पराभिमतस्यैव काव्यरूपत्वप्रसञ्जनाभिप्रायेयमुक्तिरित्याह-तव मत इत्यादि । स्वशब्दकृता रसादिप्रतीतिः न विभावादिकृतेत्यस्मिन् मते काव्यत्वेनानभि- मतमपि काव्यमापद्यतेत्यर्थः । तथाविधमेवोदाहरणमाह-शृङ्गारेति । 'यतश्चेत्या दिवृत्तिग्रन्थस्यानर्थक्यशङ्कामुपसंहारत्वोक्त्या शमयन्नाह-एवमित्यादि । वृत्तावभिः धेयसामर्थ्याक्षिप्तत्वमुपसंहृतं, तत्तु शब्दार्थोभयगतध्वननव्यापारगम्यत्वरूपमिति व्या- चष्टे अभिधेयमेवेत्यादि । सामर्थ्यपदस्य विवरणम्-सहेत्यादि । सहकारि एव शक्तिः शक्नोत्यनयेति शक्तिस्तद्रूपम्। तत्किमित्यत्राह-विभावादिकमिति । ध्वनन इत्याक्षेपपदव्याख्यानम् । कर्मधारयाश्रयणेन शब्दे योजयित्वा षष्ठीतत्पुरुषा- श्रयेणार्थे योजयति-अभिधेयस्य चेत्यादि । अभिधेयस्येत्यस्य ध्वनन इत्यनेन सम्बन्धः । भिन्नयोगक्षेमतया भिन्नस्वभावतया। पुत्रजन्म खलु हर्षं जनयति, न तथा विभावाद्यर्थो रस जनयतीति तद्विलक्षणत्वमर्थगतध्वननस्य । अनुमानपक्षमपि पराकरोति-दिवेति । सामर्थ्यमित्यस्य व्याख्यानम्-शक्तिरिति । शक्तिमेव विवृ- णोति-विशिष्टेति । गुणालङ्कारादिविशिष्टेन समुचितेन रसानुगुणेन च वाचकेन


 १ भरतना., P. 69 edn, Chowkhamba, Benares,