पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

कालिन्दीतटरूढवञ्जुललतामालिङ्गय सोत्कण्ठया ।
तद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥

 इत्यत्र विभावानुभावावम्लानतया प्रतीयेते । उत्कण्ठा च चर्वणागोचरं प्रतिपद्यत एव । सोत्कण्ठाशब्दः केवलं सिद्धं साधयति, उत्क्रमित्यनेन तूक्तानुभावानुकर्षणं कर्तु सोत्कण्ठाशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः, पुनरनुभावप्रतिपादने हि पुनरुक्तिर- तन्मयीभावो वा न तु तत्कृतेत्यत्र हेतुमाह-विषायान्तर इति । 'यद्विश्रम्य'

बालप्रिया

दत्ता या झम्पा वेगेनोर्ध्वादिदेशादास्फालनपूर्वकपतनक्रिया विहरणकालभवा तया । झम्पाशब्दः पुल्लिगो वा । आनताम् दाने हि प्रतिग्रहीतुरानतिरुचिता । 'सम्पन्न- ते'ति पाठे तेन दत्ता सम्पादिता सम्पन्नता पुष्पपल्लवादिसमृद्धिर्यस्यास्तामित्यर्थः । कालिन्दीतटरूढेति वल्लभविहरणस्थानरूढत्वेन सौभाग्यातिशयं सूचयति, तद्देश- स्योत्कण्ठाकारित्वं च । तत् तथाविधम् । गातमिति भावे क्तः। गुर्विति। गुरुणा प्रभू- तेन बाष्पेण रुद्धकण्ठतया गद्गदं यथा तथा गलन् प्रसरन् तार उच्चस्तरश्च स्वरो यत्र तत्तथा । येन गीतेन । यदाकर्णनेनेति यावत् । अन्तर्जलचारिभिः सारसादि- भिरपि, न केवलं जलबहिर्भागसञ्चारिभिहंसादिभिः । उत्कं सोत्कण्ठम् । उत्कू- जितं उच्चैःकूजितं तन्मयीभवनयुक्त्या रुदितमित्यर्थः । विभावानुभावाविति । मधुरिपुविरहो, वियुक्तो मधुरिपुर्वा आलम्बनविभावः, कालिन्दीतटादय उद्दीपनवि- भावाः, लतालिङ्गनादयोऽनुभावाः । 'विभानुभावमिति च पाठः । अम्लानतया अक्लेशेन वाच्यतयैवेति यावत् । प्रतीयेते प्रतीयत इति च पाठः । ततः किमत आह-उत्कण्ठा चेति । चर्वणाया गोचरं विषयत्वं प्रतिपद्यत एव, नात्र स्वशब्दापेक्षामूलकस्संशयः कार्यं इत्यर्थः । ननु सा स्वशब्दावेदितैवेत्यत आह- सोत्कण्ठाशब्द इति । सिद्धं साधयतीति । ज्ञातं ज्ञापयतीत्यर्थः। अतश्चानुवादक इतिभावः । केवलशब्देनात्र विभावानुभावौ प्रति सहकारित्वमपि नेति दर्शयति। अनु. वादोऽप्ययं नानर्थक इत्याह-उत्कमित्यादि । अयमर्थः-जलचारिणां कूजितेऽपि गुरुबाष्पेत्यायुक्तानुभावानां संयोजन एव तन्मयीभवनयुक्त्या तदुत्कण्ठायाश्चर्वणागोच रत्वं भवति । उत्कमित्यनेन च तदनुभावसाहित्यं प्रतिपिपादयिषितम् । न च केवले- नोत्कशब्देन तत्प्रतिपादनं भवति, तस्य तावत्यपर्याप्तत्वात् । सति च पूर्ववाक्ये सोत्कण्ठाशब्दे तत्संगृहीतानामनुभावानां सोत्कण्ठासमानार्थकोत्कशब्देन प्रतिपादनं भव- तीति सोत्कण्ठाशब्दस्सप्रयोजन इत्यर्थः । ननु पुनरप्यनुभावप्रदर्शनमस्त्वित्यत आह- पुनरिति । न केवलं पुनरुक्तिरेव, तथाविधस्यानुभवजातस्य तन्मयीभवनोपयोगितापि न स्यादनौचित्यप्रतिपत्तिग्रस्तसौभाग्यत्वादित्याह-अतन्मयीति । 'विषयान्तर'