पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
प्रथमोद्योतः


प्रसङ्गः । न च सर्वत्र तेषां स्वशब्दनिवेदितत्वम् । यत्राप्यस्ति तत्, तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः । स्वशब्देन सा केवलमनू- द्यते, न तु तत्कृता । विषयान्तरे तथा तस्या अदर्शनात् । न हि केवलशृ-


लोचनम्

दर्शयति- -न च सर्वत्रेति । यथा भट्टेन्दुराजस्य-

यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने
यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
दुर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः
कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥

 इत्यत्रानुभावविभावावबोधनोत्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचि- त्तवृत्तिवासनानुरञ्जितस्वसंविदानन्दचर्वणागोचरोऽर्थो रसात्मा स्फुरत्येवाभिलाषचिन्तौ- त्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिशब्दाभावेऽपि । एवं व्यतिरेकाभावं प्रद- र्श्यान्वयाभावं दर्शयति-यत्रापीति । तदिति स्वशब्दनिवेदितत्वम् । प्रतिपादन- मुखेनेति । शब्दप्रयुक्तया विभावादिप्रतिपत्त्येत्गर्थः । सा केवलमिति । तथा हि-

याते द्वारवती तदा मधुरिपौ तद्दत्तझम्पानतां

बालप्रिया

 व्यभिचारविषयमुदाहरति-यदिति । विश्रम्य मध्ये मध्ये विरम्य । नि- स्थेमनी स्थैर्यरहिते अतिव्याकुले । आद्यपादेन अलसा नाम दृष्टिरुक्ता । व्रीडौत्सुक्ये च द्योत्येते । दरिद्रति कृशीभवन्ति शुष्यन्ति च । लूनेत्याग्रुपमया म्लानच्छायत्वा- दिकं द्योत्यते । निबिडः घनः वर्णान्तरानुप्रवेशरहितः । पादत्रयेणानुभावव्यभिचारि- वर्गो दर्शितः। यूनि आरब्धयौवने । कृष्ण इत्यनेन विभावश्च । वनितासु गोपीषु। एषैव उक्तालसविलोकनादिरूपैव । वेषस्थितिः वेषरचना । तदिति । तन्म- यीभवनस्य युक्तिर्योगस्तया । तदिति । तेषां रसादीनां त एव वा ये विभावानु- भावाः, तेषामुचिता याश्चित्तवृत्तयः स्थायिव्यभिचारिरूपास्तासां वासनाभि- रनुरञ्जिताया रूषितायावसंविदो या आनन्दमयी चर्वणा तस्याः, गोचरो विषय इत्यर्थः। रसात्मा अर्थः इत्यादिशब्दाभावेऽपि स्फुरत्येवेति सम्बन्धः। अभि- लाष: अभिलाषविप्रलम्भः । अत्राभिलाषो महावाक्येन चिन्तादयस्त्ववान्तरवाक्येन व्यज्यन्त इति बोध्यम् । अन्वयाभावमिति । यदि लक्ष्ये स्वशब्देन रसादिप्रतीति- स्तर्ह्ययन्वयः स्यान्न तु स्वशब्देनातोऽन्वयाभाव इति भावः । वृत्तौ 'यत्रापी' त्यपिश. ब्दस्तुशब्दार्थे । यात इति । द्वारवतीं यात इत्यनेन प्रत्यागमनप्रत्याशाविरहः सूच्यते । मधुरिपावित्यनेन दुष्टनिग्रहव्यग्रताद्योतनेन स एवोपोद्वलितः। तदा मगधराजे मधुरामुपरुन्द्धति सति । आलिङ्गने हेतुमाह-तद्दत्तेति । तेन मधुरिपुणा

      ११