पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
सटीकलोचनोपेतध्वन्यालोके


प्रकाशते, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विमिन्न एव । तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात् , विभावादिप्रतिपादन- मुखेन वा । पूर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीति.


लोचनम्

वानुभावप्रतीतौ तन्मयीभावेनास्वाद्यमान एव रस्यमानतैकप्राणः सिद्धस्वभावसुखादि- विलक्षणः परिस्फुरति। तदाह-प्रकाशत इति । तेन तत्र शब्दस्य ध्वननमेव व्यापा- रोऽर्थसहकृतस्येति । विभावाद्यर्थोऽपि न पुत्रजन्महर्षन्यायेन तां चित्तवृत्तिं जनयतीति जननातिरिक्तोऽर्थस्यापि व्यापारो ध्वननमेवोच्यते । स्वशब्देति । शारादिना शब्दे. नाभिधाव्यापारवशादेव निवेदितत्वेन । विभावादीति । तात्पर्यशक्त्येत्यर्थः । तत्र स्वशब्दस्यान्वयव्यतिरेकी रस्यमानतासारं रसं प्रति निराकुर्वन्ध्वननस्यैव ताविति

बालप्रिया

तथा काव्यं विभावाद्यर्थप्रतिपादनद्वारा तात्पर्यशक्त्या रसचर्वणां न जनयतीत्यर्थः । नापीति । रसादिरर्थ इत्यनुषज्यते । परिस्फुरतीत्यपकृष्यते । अपि त्वित्यादि । हृदयस्य संवादः सम्प्रतिपत्तिः, स एव बलं सहकारि तस्मात् । प्रतीतावित्यनेन सामग्री दर्शिता । आस्वाद्यमान एव सन् । रसपदलभ्यार्थकथनं-रस्यमानतेति । सुखादिवत्साध्यत्वं व्यावर्तयति-सिद्धत्यादि । आत्मानतिरेकेण सिद्धस्वभावः । सुखादि तु तदतिरेकेण साध्यस्वभावमिति सुखादिविलक्षणश्चेत्यर्थः । यद्वा-स्थाय्येव विभावादिप्रत्ययारभ्यत्वाद्रस इति मतमपाकर्तुमाह-सिद्धेति । सिद्धस्वभावा ये सुखा. दयो भावाः सुखपदेन रतिर्विवक्षिता। तद्विलक्षण इत्यर्थः। तदाह तदेतदाह। फलित- माह-तेनेत्यादि । तेन कारकत्वलक्षकत्वयोरभावेन । इतीति । उक्तमिति शेषः । अथार्थस्यापि ध्वननमेव व्यापार इति जनकत्वनिषेधपूर्वकं दर्शयति-विभावाद्यर्थो- ऽपीत्यादि । 'स्वशब्दनिवेदितत्वेन वे'त्यादिना यत् कल्पद्वयमुक्तं तदभिधातात्पर्यश. क्तिद्वयाभिप्रायकमिति दर्शयति-शृङ्गारादिनेत्यादि । तत्रेति । आद्यपक्ष इत्यर्थः । अन्वयेति । यत्र यत्र रसादिप्रतीतिः, तत्र तत्र स्वशब्द इत्यन्वयः। यत्र यत्र न स्वशब्दः, तत्र तत्र नेति व्यतिरेकः, तावित्यर्थः । यद्वा-स्वशब्दसत्वे रसादिप्रती- तिस्तदभावे रसादिप्रतीत्यभाव इत्यन्वयव्यतिरेकावित्यर्थः। रस्यमानतासार- मिति हेतुगर्भम् ।


 १. तत्सत्वे तदितरयावत्कारणसत्वे कार्यसत्वमन्वयः । तदभावे कार्याभावो व्यतिरेकः । न हि यस्य कस्यचिदेकस्य कारणस्य सत्वे कार्यसत्वं दृष्टमिति बहुत्रान्व- यव्यभिचारप्रसक्तिवारणायान्वयस्वरूपे तदितरयावत्कारणकूटसत्वं निवेशितम् । व्यति- रेके त्वेकस्यापि कारणस्याभावे कार्य न भवतीति तत्र तदितरयावत्कारणकूटाभावो न निवेशनीय इति ।