पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थ प्रतिपाद्यम् एवञ्च सकललहृदयजनमनःप्रकाशमानं समस्तसत्कविकाव्योप- निषद्भूतं सल्लक्षणलक्षितं भेदप्रभेदैरुपचंहितं ध्वनिमस्मिन् ग्रन्थे निक पयन्तः श्रीमन्त आनन्दवर्धनाचार्याः साहित्यस्य शास्त्रात्वं स्थापयाञ्च- कुरित्यहा धन्यधन्यस्संवृत्तोऽयं साहित्यसमाजः। किञ्चेमे आनन्दव- र्धनाः ललितोचितसन्निवेशचारुणः काव्यस्य, शरीरस्येवात्मानं सहृद- यश्लाघ्यं सारभूतं गुणालङ्कारव्यतिरिक्तं ध्वनि प्रतिपादयितुं प्रवृत्ताः, प्रथमतः स्वपूर्ववर्तिनां कतिपयानां समूलं ध्व ने निराकर्तुमुद्यतानां वादिनां मतानि सविशेषं सयुक्ति च निराचक्रुः । तत्र प्राधान्येन त्रयः पक्षा वादिनाम्-प्रथमे ध्वनि कालसम्बन्धिनं नावगच्छन्ति, अपरे शोभा. हेतुं तं नाभ्युपयन्ति, चरमे च शब्दार्थगुणालङ्कारेश्वन्तर्भावे प्रयतन्ते । तत्र 'ध्वनिः कालसम्बन्धी भासमानत्वात् घटवत् इति प्रथमे निरा- कृताः। यद्यपि शुक्तिरजतस्स्य, रज्जुसर्पस्य, मरुमरीचिकासलिलस्य, गन्धर्वनगरादेश्च भालमानत्वहेतुना सत्त्वमापतेदिति शङ्कोदियात् , तथापि क एवमाह सत्वमेषां नास्तीति, सर्वथा असतां भासमानत्वानु. पपत्तेर्वन्ध्यापुत्रशशविषाणखपुष्पादिवत् इति सा निराकर्तुमुचिता । ध्वनिः काव्यशाभाहेतुः कालिदासादिनिष्ठमहाकवित्वव्यपदेशबीज- त्वात्। व्यतिरेके चैत्रमैत्रायो निदर्शनानि इत्यपरे समुत्तरिताः । "ध्वनिः गुणालङ्काररूपो न भवति, मङ्गित्वादात्मवत्' इति चरमेऽपि जिज्ञासाप्रतिबन्धपर्यङ्कमधिशायिताः। विस्तरस्त्वदसोयोऽचिरादेव प्र. काशमेष्यन्त्यां मद्गुरुवर्यः पण्डितकुलावतंसैः श्री महादेवशास्त्रिपादेविर चितया व्याख्ययोपेतस्य रसगङ्गाधरस्य भूमिकायामवलोकनीयः । एवं वादिना पक्षानिरस्यध्वनेस्स्वरूपञ्च सप्रभेदं सुनिरूप्य प्रन्थस्या- स्ते श्रीमन्तो ध्वनितत्वविवेचनपरमाचार्यवर्या महाभारते महता सन्द. भण शान्तो रसः प्रधानमिति युक्तिप्रयुक्तिकौशलैरुपापीपदन् । तदसह- मानाः केचन समुद्घोषयन्ति -शान्तस्य तावद्रसत्वमेवानुपपन्नम् । अत एव दशरूपककारः शान्तस्य रसत्वं नाङ्गीकृतम्, सहृदयशिरोमणिभिः काव्यप्रकाशकारैरपि 'शान्तोऽपि नवमो रसः' इत्यभिधानस्तस्य तत्वमौदासीन्यमुद्रया प्रकस्यकारि । श्नोभोजराजेन शृङ्गारप्रकाशे शृङ्गा. रस्यैव रसत्वमूरोचक्रे । उज्वलनोलमणौ भक्तरेव तथात्वमभ्युपागम्यत । किञ्च सम्भवत्यपि तस्य रसत्वे महाभारतस्य तन्मुख्यत्वं व्युत्पत्ति- विरुद्धम् , उपपत्त्यनन्वितम्, प्रसिद्धिप्रतिहतञ्च । तथाहि-'समामे प्रयोजनयोधृभ्यः इति पाणिनीयानुशासनेन भरताः (तद्वंशप्रभवाः