पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावानचेतनानपि चेतनवच्चेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥ इति । ध्वनिञ्च वैयाकरणाः प्रतिपादयाम्बभूवुरिति यन्महाभाग उर. यत्, तत्रेषदिवावधातव्यम् । शब्दमात्रकथनं किञ्चिदिव तत्र विवेचनं न तन्निरूपणश्रेयःसर्वस्वं तस्मै दातुं क्नोति । शवर्णास्तावन्त एव, शब्दा अपि प्रायः प्रयुक्ता एव, न तु तैरेव येषां केषामपि चरितार्थता कतु पार्यते । अपि तु श्लाघनीयो महान् विषयो विदुषामपि विस्मया- पहः कश्चन यैः प्राक्तनपुण्यपरिपाकपवित्रितमतिशालिभिः प्रतिभाप्र. भाप्रभावितवैभवैः प्रजनितसंक्षोभान् पूर्वपक्षान् समूलं विदलय्य विग- लितदोषैर्लक्षणैः संलक्ष्य भेदप्रभेदैः सन्दर्य नव्यैर्भव्यैरुदाहरणैः सञ्चार्य प्रतिष्ठाप्यते, ते हि तत्रभवन्तः समादरणीयपौरुषा महापुरुषैः तादृशस्य निगूढतमविषयस्य उपज्ञावन्तः प्रथमे प्रभवाः परिगण्यन्ते । ईवशञ्च ध्वनेनिरूपणसौष्ठवं साहित्याचायरेवानन्दवर्धनैः समपादि न वैयाक. रणधुरोणैः शब्दसाधुत्वमात्रप्रसाधनकर्मठः । परमार्थतस्तु वैयाकरणाः स्फोटव्यञ्जकक्षणिकवणषु ध्वनिपदं प्रयु. जाना यां काञ्चन प्रतिष्ठा प्रतिपद्यन्ताम् मा स्म तावत्तत्र वादीत् कश्चि- दपि । ध्वनिप्रस्थापनपरमाचार्यकाश्चर्यकारिणस्तु किमपि लोकोत्तरमेव ध्वनेः स्वरूपं प्रत्यपादयन् शब्दार्थमयकाव्यगोचर, यत्राचापि विस्मयते मनीषिनिवहः, अभिमन्यते कषिवर्गः, अनुभवति च गौरवं सहृदयलोक इति बहीयाननयो। धनिस्वरूपयोभदः । तस्माद्वितीयो गतार्थताप्र. यासा सुतरां विहस्तः । प्रवेको तु तृतीयतुरीयावनुयोगौ वशिष्येते प्रतिविधातुम् । तत्र. श्रुतिपुराणयो। साहित्यमध्यपातित्वात् ध्वनिकतिपयालङ्कारवणनं न दोषाय । तयोः कवित्वप्रौढिप्रकर्षभद्रासनासीनत्वादेव परमेष्ठिनः कृष्ण- द्वैपायनस्य महर्षश्च प्रबह कविव्यपदेशस्तत्र तत्र व्यवहतः सङ्गच्छते- "कविं पुराणमनुशासितारमणेारणीयांसमनुस्मरेद्यः' 'पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता' 'एकोऽभून्नलिनात्परस्तु पुलिनाद्वल्मीकतश्चापरः । तेऽभूवन कवयः' इत्यादिषु । किञ्चैवं सर्वेषामेव शास्त्राणां श्रुतिस्मृति. मुलानुधावित्वाच्छानत्वव्याघातः प्रसज्येत, अन्यथा तेषां प्रामाण्य मेव भज्येत । एवञ्च शास्त्रस्वरूपनिरूपणे श्रुतिस्मृतिभिन्नत्वं प्रमाणविशेषणं देयम् । मपि च तत्र तत्र ध्वन्यलङ्कारयोः प्रस्तावमा सम्पन्नेऽपि तयोः पर्याप्त विवेचनं साहित्यनिबन्धेषूपलभामह इति तस्यैव तत्र प्रामाण्य. मुपपादनाहम् ।