पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरूपनिरूपणे-'अथवा प्रतीतपदार्थको लोके, ध्वनिः शब्द इत्युच्यते । तद्यथा-शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवक इति । ध्वनि कुर्वन्नेवमुच्यते । तस्माद्ध्वनिः शब्द' इति । लाहित्यस्य परमं रहस्यं रसञ्च साक्षाद्भगवती श्रुतिः प्रतिपादयति-रसो वै सः' 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति । उपमादयश्चालङ्कारा अग्निपुराणे पर- मर्षिणा निरूपणकर्मतां नीताः । एवञ्च कमनधिगतमथं प्रतिपादयत्ता- हित्यं दद्वीयसी शाखपदवीमालादयेत् इति । विष्वगनिभाल्प साहसिकत्वमेवाचरितमायुष्मता । शास्त्ररसिका स्तद्रक्षणदक्षास्तदीयमपि कमनीयं कञ्चन सुकुमारमर्थ केचन वर्णय. न्ति कवयः प्रसङ्गलङ्गतं, न तु तदीयमेव । यथा-'कारसगरसिक यणुकोहि त्वं द्वीपाधिपानयनयानयगोचरत्वम्' इति प्रतिपादितदिशा केचनैव झणवः शृङ्गाररसंसर्गाय निसर्गतः पर्याप्ता न सर्वे एवं नाभ- व्याः, नासुन्दाः, नारुन्तुदो, न रूक्षाः, नोपेक्षिताः पदार्थाः कविसहृद. यशिरोमणिभिः काव्यकर्मणे समाद्रियन्ते, अनाघ्राताः सुमनस इव लोभ. नीयाः सौन्दर्यसारसम्भृताःशर्कराकरम्बितदुग्धधारातोऽप्यभ्यधिकमधु. राः सर्वथाभिनवाः उच्छलतरङ्गभङ्गा इव पीयूषमहोदधेएन्तरमान्तमान- न्दसन्दाहमुढेलयन्तो रसवृष्टिभिरायन्तोऽर्था महाकविभिः सनथ्यन्ते । वस्तुतस्तु तैरेव निस्तुनिर्माणकर्मतामञ्चमञ्चद्भिर्महाकवित्वपदवी ने दीयसी भवति प्राक्तनपुण्यपरिपाकसौभाग्यभाजाम् । अथवा विसंष्ठुलाः शिलाशकला नर्मदाप्रवाहपतितास्तदीयावर्चावत्तिताःतलगतोपलपरिपि- ष्टाः परमेश्वरप्रतिमारूपतया परिणताः पूज्यां स्थितिमाश्रयन्ते,एवं लौकि- काः शास्त्रान्तरप्रसिद्धिमाजोऽपि वस्तुभेदाः कविप्रतिभासंस्कृताः सन्नि. वेशविशेषवशमापद्यमाना निर्माणकूटतष्टाः सहृदयहृदयं प्रविष्टाः रस. निर्झरान प्रवाहयन्ति । एवञ्च 'कचन प्रत्यग्रान् अन्यत्र विशेषणवैल. दयेण विलक्षणान् पदार्थानिवधनन्तो महाकवयो विधातारमप्यतिश- यानाः केवलाहादमयीं सर्गरचनामातन्वाना लोकोत्तरचमत्कारचातुर्य- चयश्चितचारुचरिताः कथमिव शास्त्रान्तरसिद्धमेवार्थ सन्दर्भयन्तीति जुगुप्साकलङ्कक्लेशलेशैरपि स्पृश्येरन् । अत एव सुकवेः काव्ये स्वात. म्यमुपदिशन्तः श्रीमदाचार्यानन्दवर्धना विषयमेनमुपोद्वलयन्ति- अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेकविः काव्ये जातं रसमयं स एव पोतरागश्चेन्नीरसं सर्वमेव तत् ॥ जगत् ।