पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कवित्वलाभात्, प्रहितं प्रेषितं साक्षात्परमानन्दरूपेण, परमेश्वरेण वा; अवहितं निगृहीतेन मनसा ध्यातं प्राचेतसद्वैपायनप्रभृतिभिर्महर्षिभिर्वा, हितं सुहितम् 'यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः' इति स्म- रणात् अक्षय्यतृप्तिसम्पादनं वा, तत्सहितं तस्य भावः । सर्वथा चेदृश्यो व्युत्पत्तयो रसरूपमर्थ न व्यभिचरन्ति । यद्यपि साहित्यपदं वाङ्मयेऽ- पि प्रयुज्यते-'संस्कृतसाहित्यं हिन्दी साहित्यम्' इत्यादि, तथापि 'सा- हित्ये सुकुमारवस्तुनि' 'नमोऽस्तु साहित्यरसाय तस्मै' 'येषां न चेतो ललनानु लग्नं मग्न न साहित्यसुधासमुन्ने 'साहित्यसङ्गीतकलाविही. न: 'लाहित्यपाथोनिधिमन्थनोत्थम्। 'साहित्यादपि शास्त्राणि' इत्येवं प्रभृतिनि लक्ष्ये व्यवहतमनेकार्थमपि व्यजकस्वप्रतिपादकत्वान्यतरसम्ब- न्धेन लोकोत्तरचमत्कारकारिरसनीयवस्तुविशिष्टं काव्यालङ्काररूपम् उन्मग्नसौन्दर्यसारं सुधामहादसब्रह्मचारि शास्त्रमत्र प्रतिपाद्यम् । साहित्यस्य शास्त्रत्वम् शास्त्रं हि नाम शासनकरणम् । शासनञ्चानधिगतार्थज्ञापनम्-ज्ञान: विषस्वाभाषवदर्थबोधनम् । ज्ञानविषयतायाः केवलान्वयित्वेन तत्सा- मान्याभावस्थासम्भवेऽपि स्वानुपजीविप्रमाणाप्रयोज्यज्ञानविषयवसा- मान्याभाववत्सकलपुमर्थसाधनार्थविषयकशानसाधनत्वं तदिति ध्येय. म्। स्वानुपजीवीनि प्रमाणानि न्यायवेदान्तप्रभृतीनि, तत्प्रयोज्यज्ञानवि. षयता द्रव्यगुणादिषुब्रह्ममायादिषु च, तत्सामान्याभाववन्तः सकलपुम- थंसाधनानि च रसादयः, तद्विषयकशानसाधनत्वं साहित्यस्येति तस्य शास्त्रत्वे करसन्दिहीत ? विशेषतश्च ध्वन्यालोकस्य प्रमाणान्तरेणान- धिगतध्वनिस्वरूपप्रतिपादकत्वाच्छास्त्रत्वमसन्दिग्धमेव । 'मानन्द इति च ग्रन्थकृतो नाम, तेन ल मानन्दवर्धनाचार्य एतच्छास्त्रद्वारेण सहृदयहृद- येषु प्रतिष्ठां देवतायतनादिवदनश्वरी स्थिति गच्छतु' इति ब्रुवन्तः श्रीम न्तोऽभिनवगुप्ताचार्या भपिध्वन्यालोकस्य शास्त्रत्वं मुक्तकण्ठं स्वीकुर्वते । कविकुलशेखरा श्रीराजशेखरोऽपि काव्यमीमांसायां-पञ्चमी साहित्य- विद्या इति यायावरीयः। ला हि चतुष्टयीनामपि विद्यानां निष्यन्दः' इत्युपवर्णयन्नस्य शास्त्रत्वं विर्विचिकित्समभिप्रेति । अत्र केचन अभिधते-शास्त्रान्तरसिद्धमेवार्थ महाकवयस्सन्दर्भ यन्ति । अत एव कविकुलतिलका श्रीहर्षोऽभ्यधात्- 'जगत्त्रयीपण्डितमण्डितैषा सभा न भूता न च भाविनी च । राशा गुणज्ञापनकैतवेन संख्यावतः श्रावय वाङमुखानि' ॥ इति । ध्वनिच वैयाकरणाः प्रतिपादयाम्बभूवुः । तथा च पस्पशायां शब्द.