पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
प्रथमोद्योतः


सभमरपउमग्याइणि वारिअवामे सहसु एह्विम् ।।
अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः सम्भवन्ति ।

तेषां दिङ्मात्रमेतत्प्रदर्शितम् । द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्च.


लोनचम्

प्रियायाः सव्रणमधरमवलोक्य । सभ्रमरपद्माघ्राणशीले शीलं हि कथंचिदपि वारयितुं न शक्यम् । वारिते वारणायां, वामे तदनङ्गीकारिणि । सहस्वेदानीमुपालम्भपरम्प- रामित्यर्थः । अत्रायं भावः- काचिदविनीता कुतश्चित्खण्डिताधरा निश्चिततत्सविधसं- निधाने तद्भर्तरि तमनवलोकमानयेव कयाचिद्विदग्धसख्या तद्वाच्यतापरिहारायैवमु- च्यते। सहस्वेदानीमिति वाच्यमविनयवतीविषयम् । भर्तृविषयं तु-अपराधो नास्ती- त्यावेद्यमानं व्यङ्गयम् । सहस्वेत्यपि च तद्विषयं व्यङ्ग्यम् । तस्यां च प्रियतमेन गाढमु पालभ्यमानायां तयलीकशङ्कितप्रातिवेशिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं . व्यङ्ग्यम् । तत्सपत्न्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दवलादिति सपत्नीविषयं व्यङ्गयम्। सपत्नीमध्ये इयता खलीकृतास्मीति

बालप्रिया

पीति । वस्तुतस्सव्रणत्वाभावेऽपीत्यर्थः । तर्हि कथं तदवलोकनमित्यत आह- कुतश्चिदित्यादि । केनापि कारणेन प्रागदृष्टविशेषवत्तया प्रमुखतः सव्रणतया विलो. क्येत्यर्थः । कृत्वापीति पाठे कुतश्चिल्लाक्षारसादिना केनचिदेव कृत्वाऽपि स्वयं कृत्वा- पीत्यर्थः । 'वामे' इत्यस्य तदनङ्गीकारिणीति विवरणम् । अत्रायं भाव इति । उक्ते वाच्यार्थे स्थिते वक्ष्यमाणो व्यंग्यार्थ इत्यर्थः । कुतश्चिदिति । जारादिनेत्यर्थः । तद्वाच्यतेति । भर्तुरुपालम्भविषयतेत्यर्थः । तस्याः वाच्यतेति वा । वाच्यतापरि- हारप्रसङ्गः क इत्यत उक्तं निश्चितेति । सख्या निश्चितेत्यर्थः । सविधः पुरोभागा- तिरिक्तः प्रदेशः । वाच्यव्यंग्ययोर्विषयभेदं दर्शयति-सहस्वेत्यादिना । इत्यावेद्य- मानमिति । निरपराधत्वमित्यर्थः । सहस्वेति । अधरव्रणावलोकनजनितकोपभरं सहस्वेत्यर्थः । इयमेवंखण्डिताधरा तदन्यहेतुकत्वशङ्कया मा कुप्येत्यर्थः। तस्यां नायि- कायाम् । उपालभ्यमानायामिति । प्रियतमागमनसमय इति शेषः । तद्व्यलीक- मिति । तस्य भर्तुर्व्यलीकमप्रियमनया कृतमिति शङ्कितो यः प्रातिवेशिकलोक- स्तद्विषयमित्यर्थः। प्रत्यायनं निरपराधत्वबोधनम् । तत्सपत्न्यामिति । विषयभेदक- थनप्रकरणत्वात्सप्तमी, तस्यै इत्यर्थः । तदित्यादि । तत्पदे नायिकार्थके। सौभाग्येति । नायिकासौभाग्येत्यर्थः । ख्यापनमिति । व्यंग्य मिति शेषः । इति शब्दबलादिति । श्रुतप्रियाशब्दायाः प्रियतमकृतोपालम्भप्रतीत्यनन्तरमियमेव मत्तोऽधिकतरं सुभगेति प्रतीतिसम्भवादिति भावः । इयतेति। अविनयस्फुटोद्भावनेनेत्यर्थः। खलीकृता लघुःकृता । प्रत्युतेति । सखीमध्य इत्यनुषज्यते । बहुमान इति । अविनयस्यात्य.