पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
सटीकलोचनोपेतध्वन्यालोके


मग्रे दर्शयिष्यते । तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामाक्षिप्तः


लोचनम्

लाघवमात्मनि ग्रहीतुं न युक्तं; प्रत्युतायं बहुमानः, सहस्व शोभस्वेदानीमिति सखीवि- षयं सौभाग्यप्रख्यापनं व्यङ्ग्यम् । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभेत्थं रक्षिता, पुनः प्रकटरदनदंशनविधिर्न विधेय इति तचौर्यकामुकविषयसम्बोधनं व्यङ्गयम् । इत्थं मयैतदपढह्रतमिति स्ववैदग्ध्यख्यापनं तटस्थविदग्धलोकविषयं व्यङ्ग्यमिति । तदेतदुक्तं व्यवस्थापितशब्देन । अग्र इति। द्वितीयोदृधोते असंलक्ष्यक्रमव्यङ्ग्यः क्रमेणोड्यो- तितः परः' इति विवक्षितान्यपरवाच्यस्य द्वितीयप्रभेदवर्णनावसरे । यथा हि विधिनि- षेधतदनुभयात्मना रूपेण संकलय्य वस्तुध्वनिः संक्षेपेण सुवचः, तथा नालङ्कारध्वनिः, अलङ्काराणां भूयस्त्वात् । तत एवोक्तम्-सप्रपञ्चं इति। तृतीयस्त्विति । तुशब्दो व्यतिरेके । वस्त्वलंकारावपि शब्दाभिधेयत्वमध्यासाते तावत् । रसभावतदाभासतत्प्र- शमाः पुनर्न कदाचिदभिधीयन्ते, अथ चास्वाद्यमानताप्राणतया भान्ति । तत्र ध्वनन- व्यापारादृते नास्ति कल्पनान्तरम् । स्खलद्गतित्वाभावे मुख्यार्थबाधादेर्र्लक्षणानिवन्धन- स्यानाशङ्कनीयत्वात् । औचित्येन प्रवृत्तौ चित्तवृत्तेरास्वाद्यत्वे स्थायिन्या रसो, व्यभिचा- रिण्या भावः, अनौचित्येन तदाभासः, रावणस्येव सीतायां रतेः । यद्यपि तत्र हास्यर- सरूपतैव, 'श्रृङ्गाराद्धि भवेद्धास्यः' इति वचनात् । तथापि पाश्चात्येयं सामाजिकानां

बालप्रिया

न्तप्रच्छादनादिति भावः । सखीति । नायिकेत्यर्थः। सम्बोधनमिति । उपदेश इत्यर्थः । न ह्येतत्सर्वं स्वोत्प्रेक्षामात्रेणोक्तमपि तु विविधमवस्थापितो 'व्यवस्थापित' इति वृत्तिग्रन्थानुरोधेनेत्याह-तदेतदित्यादि । ननु वस्तुध्वनिवदलङ्कारध्वनेरप्यत्रैव प्रद- र्शनीयत्वे किमित्यग्रे दर्शयिष्यत इत्युक्तमित्यतस्तात्पर्यमाह-यथा हीत्यादि । व्यति- रेकमेव दर्शयति-वस्त्वित्यादि। 'शब्दाभिधेयत्यमपीति योजना। किं रसादयोऽपि तथेत्यत्राह-रसभावेति। भावादिग्रहणेन वृत्तिस्थादिशब्दो व्याख्यातः। अथ चेति । तथाऽपीत्यर्थः। तत्रेति । रसादिभान इत्यर्थः । कल्पनान्तरं व्यापारान्तरम् । नास्ती. त्वत्र हेतुमाह-स्खलदिति । रसादीनां स्वरूपमाह -औचित्येनेति । 'औचित्येन प्रवृत्ताविरति रसभावयोः सम्बध्नाति । स्थायिन्याश्चित्तवृत्तेरास्वाद्यत्वे रसः, व्यभिचा- रिण्याश्चित्तपत्तेरास्वाद्यत्वे भाव इति योजना । अनौचित्येनेति । स्थायिन्याश्चित्तवृत्ते- रनौचित्येन प्रवृत्तावित्वर्थः । तदाभासः रसाभासः । रसाभासानां हास्याद्भेदं दर्श- यिष्यन् प्राधान्याच्छृंगाराभासविषयमाह-रावणस्येति । हास्यविषय एवायमित्या- शंक्य परिहरति-यद्यपीत्यादि । तत्र सीताविषयकरावणरतौ । शृङ्गारादिति । शृङ्गाराभासद्वारेणेत्यर्थः । पाश्चात्या तन्मयीभवनकालोत्तरकालभवा । पूर्वापरविवेक-


 १. ध्वन्या., २.४.