पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
सटीकलोचनोपेतध्वन्यालोके


कचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा-
कस्स व ण होइ रोसो दट्ठूण पिआएँ सव्वणं अहरम् ।


लोचनम्

हताश इति । अन्यासाञ्च विघ्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा । अत एव मदीयं वा गृहमागच्छ, त्वदीयं वा गच्छावेत्युभयत्रापि तात्पर्यादनुभयरूपो वल्लभाभिप्रायश्चाट्वात्मा व्यङ्गय इयत्येव व्यवतिष्ठते । अन्ये तु–'तटस्थानां सहृद- यानामभिसारिका प्रतीयमुक्तिः' इत्याहुः । तत्र हताशे इत्यामन्त्रणादि युक्तमयुक्तं वेति सहृदया एव प्रमाणम् ।

 एवं वाच्यव्यङ्ग्ययोर्धार्मिकपान्थप्रियतमाभिसारिकाविषयैक्येऽपि स्वरूपभेदाद्भेद इति प्रतिपादितम् । अधुना तु विषयभेदादपि व्यङ्गयस्य वाच्याद्भेद इत्याह-क्व- चिद्वाच्यादिति । व्यवस्थापित इति । विषयभेदोऽपि विचित्ररूपो व्यवतिष्ठमानः सहृदयैर्व्यवस्थापयितुं शक्यत इत्यर्थः ।

कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् ।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥

 कस्य वेति । अनीर्ष्यालोरपि भवति रोषो दृष्ट्वैव; अकृत्वापि कुतश्चिदेवापूर्वतया

बालप्रिया

भिज्ञानं तद्विषयकप्रत्यभिज्ञानाभावः, तस्य छलेन तदप्रत्यभिज्ञानं स्वस्मिन्नारोप्ये- त्यर्थः । अत एव उपश्लोकनरूपत्वादेव । आत्मेति । स्वस्य बोधनायेत्यर्थः । प्रियजनेनैव नर्मवचनस्य प्रयोक्तव्यत्वादिति भावः । 'हताश इति नर्मवचनमिति सम्बन्धः। तत्पदस्योक्तार्थानुगुणमर्थमाह-अन्यासां चेत्यादि । अन्यासां च त्वद्गृ. हगमनोत्सुकस्य मम चेति चकारार्थः । व्यंग्यमाह-अत एवेत्यादि । अत एव यत एवंरूपो वाच्यार्थः, तत एव । 'मदीयं गृहमागच्छ त्वदीयं वा गृह गच्छावेति चाटवात्मा वल्लभाभिप्रायो । व्यंग्य' इति सम्बन्धः । इयत्येवेति । उक्तरूपव्यंग्यः व्यवतिष्ठत एव, न तु पश्चाद्वाच्योपस्काराय धावतीत्यर्थः। अत्र पक्षे 'निवर्तस्वे' त्यस्य तवाध्यवसायान्निवर्तस्वेति वाच्यार्थो बोध्यः । अन्ये विति । पक्षेऽस्मिन् तटस्थानां नायिकाप्रेमाभावात्तेषां वचनं न प्रवर्तकं, न वा निवर्तकमतः पूर्वोक्तव्यंग्यस्य वाच्याङ्गत्वं नेति बोध्यम् । आमन्त्रणादीत्यादिपदेन अभिसारिकावि- घ्नकरणवचनादेर्ग्रहणम् ।।

 ननु वृत्तौ 'व्यवस्थापित' इत्युक्तिः कथं सङ्गच्छते व्यवस्थापनस्यानिष्पन्नत्वादि- त्यतो व्याचष्टे-विषयभेदोऽपीत्यादि । विचित्ररूपः नानाविधः । 'कस्ये' त्यस्य भावार्थविवरणमनीर्ष्यालोरपीत्यादि । 'कस्य वेति वाकारोऽवधारणार्थको दृष्ट्वेत्युत्तरं योज्य इत्याशयेन व्याचष्टे-दृष्ट्वैवेत्यादि । एवकारार्थमाह-अकृत्वा-